भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 268, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 268

१० श्रीवल्लभकृतविवरणसमेता । एवं मार्गत्रयस्य सर्गभेदं फलभेदं च निरूप्यैतेषां त्रयाणां स्वरूपाङ्गक्रिया निरूप- यन्ति । तत्र प्रथमं प्रवाहमार्गीयाणां स्वरूपमाहुः तानहं द्विषतो वाक्यादिति । 'तानहं द्विषतो' वाक्याद्विन्ना जीवाः प्रवाहिणः । अत एवैतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ 'तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमसुरानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मिति प्रवाहमार्गीया जीवा मर्यादामार्गीयपुष्टिमार्गीयजीवेभ्यो भिन्ना आसुरा इत्यर्थः । अत एवैतरौ मर्यादामार्गीयपुष्टिमार्गीयजीवौ प्रवाहमार्गीयजीवेभ्यो भिन्नौ दैवावित्यर्थः । भेदप्रकारमाहुः सान्ताविति । तत्तन्मार्गीयफलपर्यवसानावन्तौ । फलरूप- माहुः मोक्षप्रवेशत इति । स्वस्वमार्गीयमोक्षप्रवेशत इत्यर्थः । ननु प्रावाहिकाणां जीवाना- मपि तन्मार्गीयमोक्षप्राप्त्या सान्तत्वसम्भवेपि उभयोरेव सान्तत्वकथने को हेतुरिति चेत्, सत्यम्, यद्यपि तन्मार्गीयमुक्त्या तस्यापि सान्तत्वं सम्भवति, तथापि तन्मुक्तेरानन्दरहित्या- न्मोक्षलक्षणाभावात्, किञ्च, 'ततो यान्त्यधमां गति'मिति तन्मुक्तेरधमगतित्वनिरूपणात् आनन्दरूपफलपर्यवसानाभावाच्च सान्तत्वेन गणना, न सान्तत्वमिति उभावेव सान्तौ गणितौ, न तु प्रवाहोपि, इति ज्ञापनायोक्तं सान्तौ मोक्षप्रवेशत इति । ननु 'मोक्षप्रवेशत' इति सामान्योक्त्या मोक्षस्य मार्गद्वयेपि एकरूपता भविष्यतीत्या- शङ्कानिरासायाहुः तस्मादिति । यस्मात् पूर्वमेव पुष्टिमार्गीयाणां 'कायेन तु फलं पुष्टा'- वित्यत्र फलभेदोपि निरूपित एव, तथापि पुनरपि यत् 'मोक्षप्रवेशत' इति सामान्योक्त्या फलैकत्वशङ्का तन्निरासाय विशेषतस्तेषां पुष्टिमार्गीयजीवानां स्वरूपमाहुः तस्माज्जीवाः पुष्टिमार्गे भिन्ना इति । मर्यादामार्गीयेभ्यो भिन्ना एव, अत्युत्कृष्टा एवेत्यर्थः । तेषां कदाचिन्मार्गान्तरीयसङ्गेपि मार्गान्तरप्रवेशो न भवतीति ज्ञापनाय न संशय इत्युक्तम् । अतः परं केवलपुष्टिसृष्टेः सर्वात्मना सर्वतो भेदेन सर्वोत्कृष्टत्वनिरूपणस्य प्रयोजनमाहुः भगवद्रूपसेवार्थमिति । यथा मर्यादासृष्टेः तन्मार्गीयधर्मकरणं प्रयोजनम्, तथा पुष्टिसृष्टेः भगवत्सेवाकरणमेव प्रयोजनमिति, अत उक्तं भगवद्रूपसेवार्थमिति । यद्यपि मर्यादा- मार्गे सेवा वर्तते, परं तत्र मनस्येव अङ्गुष्ठमात्रादिरूपकल्पनेन, न तु साक्षादानन्दमात्र- करपादमुखोदरादिरूपेण प्रकटस्येति ज्ञापनाय स्वरूपपदमुक्तम् । नान्यथेति । एतत्प्रयो- जनातिरिक्तप्रयोजनाभावार्थमुक्तं नान्यथेति । यदिदं प्रयोजनं न भवेत्, तदा पुष्टि- सृष्टिरेव न भवेत्, अत उक्तं नान्यथा भवेदिति ॥ १२ ॥