षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 268, कुल 408 में से
संदर्भ में पढ़ें१० श्रीवल्लभकृतविवरणसमेता । एवं मार्गत्रयस्य सर्गभेदं फलभेदं च निरूप्यैतेषां त्रयाणां स्वरूपाङ्गक्रिया निरूप- यन्ति । तत्र प्रथमं प्रवाहमार्गीयाणां स्वरूपमाहुः तानहं द्विषतो वाक्यादिति । 'तानहं द्विषतो' वाक्याद्विन्ना जीवाः प्रवाहिणः । अत एवैतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ 'तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमसुरानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मिति प्रवाहमार्गीया जीवा मर्यादामार्गीयपुष्टिमार्गीयजीवेभ्यो भिन्ना आसुरा इत्यर्थः । अत एवैतरौ मर्यादामार्गीयपुष्टिमार्गीयजीवौ प्रवाहमार्गीयजीवेभ्यो भिन्नौ दैवावित्यर्थः । भेदप्रकारमाहुः सान्ताविति । तत्तन्मार्गीयफलपर्यवसानावन्तौ । फलरूप- माहुः मोक्षप्रवेशत इति । स्वस्वमार्गीयमोक्षप्रवेशत इत्यर्थः । ननु प्रावाहिकाणां जीवाना- मपि तन्मार्गीयमोक्षप्राप्त्या सान्तत्वसम्भवेपि उभयोरेव सान्तत्वकथने को हेतुरिति चेत्, सत्यम्, यद्यपि तन्मार्गीयमुक्त्या तस्यापि सान्तत्वं सम्भवति, तथापि तन्मुक्तेरानन्दरहित्या- न्मोक्षलक्षणाभावात्, किञ्च, 'ततो यान्त्यधमां गति'मिति तन्मुक्तेरधमगतित्वनिरूपणात् आनन्दरूपफलपर्यवसानाभावाच्च सान्तत्वेन गणना, न सान्तत्वमिति उभावेव सान्तौ गणितौ, न तु प्रवाहोपि, इति ज्ञापनायोक्तं सान्तौ मोक्षप्रवेशत इति । ननु 'मोक्षप्रवेशत' इति सामान्योक्त्या मोक्षस्य मार्गद्वयेपि एकरूपता भविष्यतीत्या- शङ्कानिरासायाहुः तस्मादिति । यस्मात् पूर्वमेव पुष्टिमार्गीयाणां 'कायेन तु फलं पुष्टा'- वित्यत्र फलभेदोपि निरूपित एव, तथापि पुनरपि यत् 'मोक्षप्रवेशत' इति सामान्योक्त्या फलैकत्वशङ्का तन्निरासाय विशेषतस्तेषां पुष्टिमार्गीयजीवानां स्वरूपमाहुः तस्माज्जीवाः पुष्टिमार्गे भिन्ना इति । मर्यादामार्गीयेभ्यो भिन्ना एव, अत्युत्कृष्टा एवेत्यर्थः । तेषां कदाचिन्मार्गान्तरीयसङ्गेपि मार्गान्तरप्रवेशो न भवतीति ज्ञापनाय न संशय इत्युक्तम् । अतः परं केवलपुष्टिसृष्टेः सर्वात्मना सर्वतो भेदेन सर्वोत्कृष्टत्वनिरूपणस्य प्रयोजनमाहुः भगवद्रूपसेवार्थमिति । यथा मर्यादासृष्टेः तन्मार्गीयधर्मकरणं प्रयोजनम्, तथा पुष्टिसृष्टेः भगवत्सेवाकरणमेव प्रयोजनमिति, अत उक्तं भगवद्रूपसेवार्थमिति । यद्यपि मर्यादा- मार्गे सेवा वर्तते, परं तत्र मनस्येव अङ्गुष्ठमात्रादिरूपकल्पनेन, न तु साक्षादानन्दमात्र- करपादमुखोदरादिरूपेण प्रकटस्येति ज्ञापनाय स्वरूपपदमुक्तम् । नान्यथेति । एतत्प्रयो- जनातिरिक्तप्रयोजनाभावार्थमुक्तं नान्यथेति । यदिदं प्रयोजनं न भवेत्, तदा पुष्टि- सृष्टिरेव न भवेत्, अत उक्तं नान्यथा भवेदिति ॥ १२ ॥