षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 282, कुल 408 में से
संदर्भ में पढ़ें२४ श्रीरघुनाथकृतविवरणसमेता । न विदुरासुरा' इति वचनात् । ते च द्विप्रकाराः । एके अज्ञाः, स्वतः किमपि न जानन्ति, आसुराणां दुष्टाचारं दृष्ट्वा स्वयमाचरन्ति । एके पुनर्दुर्ज्ञाः, दुष्टमात्मपातकारणमेव कर्तुं जानन्ति, नतु भगवत्प्राप्तिसाधनमपि । ते च भगवता प्रोक्ताः 'प्रवृत्तिं च निवृत्तिं चे'त्यादिना ॥ २४½ ॥ प्रासङ्गिकमाह प्रवाहेऽपीति । प्रवाहेऽपि समागत्य पुष्टिस्थस्तेन युज्यते ॥ २५ ॥ सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५½ ॥ पुष्टिस्थो यदा दैवयोगादासुरसङ्गात्तन्मार्गे प्रविशति, तदा तेन भावेन युज्यते लिप्तो भवति । तद्वस्त्रमालिन्यवत् प्रक्षालनस्थानीयभगवद्भक्तभाविसंसर्गाच्छुद्ध्येवेति मन्त- व्यम् । अन्यथा विरोधः स्यात् । सोपि तद्धर्मैस्तेषां कुले जात उत्पन्नो भूत्वा पश्चात् स्वीयपुष्टिसंस्कारोद्बोधे सति तदर्थमेव यतिष्यत इति शेषः । जन्ममात्रं तु प्रारब्धकर्माधीन- त्वादनिवार्यम् । अत एव भगवताप्युक्तं 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यत' इत्या- दिना । इत ऊर्ध्वं ग्रन्थत्रुटिः ॥ २५½ ॥ पुष्टिप्रवाहमर्यादाः पृथक् पृथगुदीरिताः । कृतिना रघुनाथेन श्रीवल्लभपदेप्सुना ॥ १ ॥ इति श्रीवल्लभनन्दनचरणैकशरणश्रीरघुनाथानां कृतौ पुष्टिप्रवाह- मर्यादाविवरणं सम्पूर्णम् । १. संसर्गात् । २. उक्तं च, 'प्रवाहो लौकिको धर्मो मर्यादा वेद उच्यते । कृष्णे प्रेम च वै पुष्टिर्मार्- गभेदास्त्रयोऽत्र हि ॥ इत्यधिकम् ।