भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 302, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 302

४४ श्रीपीताम्बरकृतविवृतिसमेता । दन्धतमसोऽपि तथात्वादेकपदस्य मुख्यवाचकत्वेनाप्युपपत्तेस्तत्स्थितौ को दोष इति वाच्यम् । अन्धतमसो विकारत्वात्तस्य ब्रह्मत्वाङ्गीकारे 'वाचारम्भणं विकार'इत्यादि 'विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवा' नित्यादिश्रुतिभगवद्वाक्यविरोधात् । 'बृहदुपल- ब्धमेतदवयन्त्यवशेषतये'त्यादि 'निर्दोषपूर्णगुणविग्रह' इत्यादिवाक्यानि च विरुध्येरन् । अतो भगवति लयानङ्गीकारे भगवतो न तदुपादानत्वमिति सिध्येत् । किञ्च । रमणेच्छाप्ये- तदुत्पत्तौ न कारणीभवितुमर्हति । यतो रमणेच्छया स्वयं तावद्रूपो भूत्वा क्रीडतीत्युच्यते । एतेषां च केवलं दुःखित्वान्न रमणलेशोऽपि । अत एव 'केवलं नित्यदुःखा' इति श्रीवल्ल- भाष्टकोक्तिरपि सङ्गच्छते । न च भगवद्विष्रा एव केचनैव जीवाः सन्ति येषामियं व्यव- स्थेति वाच्यम् । अद्वैतश्रुतिविरोधात् । तस्मादुत्पत्तेरेवाभावान्मार्गभेदव्यवस्था कर्तुमेवाश- क्येति चेत् । अत्रोच्यते । भगवान् हि सर्वरसभोक्ता राजवद्रमणार्थं स्वस्वरूपात्मकं प्रपञ्चं कृतवान् । तत्र च वैरिणोऽप्यपेक्षिताः । अन्यथा वीररसभोगो न स्यात् । स्वांशाश्च वैरिणो न भवन्त्येव । 'यो यदंशः स तं भजते' इति वाक्यात् । तथाच पूर्वोदाहृतश्रुतिस्मृ- तिभिर्भगवता स्वसामर्थ्यरूपया मायया केचन जीवा मायांशा एव 'जीवेशावाभासेन करोती'ति श्रुत्युक्ता व्यावहारिकस्तद्योग्यव्यावहारिकसकलसामग्रीयुक्ताः सृष्टाः सन्तीत्य- वगम्यते । व्यवहारश्च लौकिको गुणानां सन्निपातः । 'अदृष्टान्यतम'मित्यस्य देवक्युद्दे- शेनोक्तस्य भगवतो वाक्यस्य विवरणे 'यद्यपि मत्तोऽन्ये ये केचन सम्भवन्ति मायया सृष्टा' इत्यत्र स्पष्टमिदम् । सप्तत्रिंशाध्यायेऽक्रूरस्तुतौ 'म्लेच्छप्राये'त्यस्य विवरणे च 'म्लेच्छा ये सहजा दैत्यास्ते गुणवन्तोऽपि हन्तव्या' इत्यनेन । अत एव श्रीमदाचार्यैरपि सृष्टिभेदनि- रूपणे निबन्धे 'महेन्द्रजालवत्सर्वं कदाचिन्माययासृजत् । तदा ज्ञानादयः सर्वे वार्ता- मात्रं न वस्तुत' इति पद्याभासे 'स्वप्नादिसृष्टिसङ्ग्रहार्थमाहे'त्यादिपदमेतदभिप्रायकमे- वोक्तम् । अत एव 'मायेत्यसुराः' 'यो यदंशः स तं भजत'इत्यादिश्रुत्यादयोऽपि सङ्ग- च्छन्ते । अत एव श्रीगोकुलनाथचरणैरपि सिद्धान्तमुक्तावलीविवृतिच्छायाः 'सेवा हि सेव- कधर्मस्तदुक्त्या जीवानाम् अशेषाणां सहजदासत्वं ज्ञापित'मिति फक्किकाया व्याख्याने 'आसु- रव्यतिरिक्तानामशेषाणा'मित्युक्तम् । अत एव 'पुमान् विरज्येत विना पशुघ्ना'दिति श्लोक- व्याख्याने 'अनिवर्त्यदोषेण चाप्रवेश' इत्युक्तिराचार्याणामस्माकमाश्रयः । 'सहजासुरत्वेनेत्यर्थ' इति प्रभुचरणतद्विवृतिरपि । अत एव 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दिति 'न सत्यं तेषु विद्यत' इत्यादिश्रुतिभगवद्वाक्ये तेषां व्यावहारिकं सत्त्वं वदतः । अत एव देवकीसुतानयनाय गतवन्तं भगवन्तं स्तुवतो बलेर्वाक्यविवृतौ श्रीमदाचार्यैरुक्तम् , 'ते चेत् द्वेषिणस्तदा तेषां नरकपात आवश्यक इत्या'सुरीं योनिमापन्ना' इति वाक्यानुसारेण कदाचि- दप्यमुक्तौ कथं भगवान् सर्वात्मे'ति । तथाच इच्छामात्रेण निमित्तेन मायोपादानकं प्रवाहं सृष्टवान् । न तु स्वयं तत्र प्रविष्टः । तथाच मायया निर्मितेषु नरकादिरूपविकारेषु ते पतन्तीति न कोऽपि दोष इत्यर्थः । ये च मुच्यन्ते ते च नासुराः । किन्त्वासुरावेशिनः ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 302, कुल 408 में से · BharatKosha