षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 302, कुल 408 में से
संदर्भ में पढ़ें४४ श्रीपीताम्बरकृतविवृतिसमेता । दन्धतमसोऽपि तथात्वादेकपदस्य मुख्यवाचकत्वेनाप्युपपत्तेस्तत्स्थितौ को दोष इति वाच्यम् । अन्धतमसो विकारत्वात्तस्य ब्रह्मत्वाङ्गीकारे 'वाचारम्भणं विकार'इत्यादि 'विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवा' नित्यादिश्रुतिभगवद्वाक्यविरोधात् । 'बृहदुपल- ब्धमेतदवयन्त्यवशेषतये'त्यादि 'निर्दोषपूर्णगुणविग्रह' इत्यादिवाक्यानि च विरुध्येरन् । अतो भगवति लयानङ्गीकारे भगवतो न तदुपादानत्वमिति सिध्येत् । किञ्च । रमणेच्छाप्ये- तदुत्पत्तौ न कारणीभवितुमर्हति । यतो रमणेच्छया स्वयं तावद्रूपो भूत्वा क्रीडतीत्युच्यते । एतेषां च केवलं दुःखित्वान्न रमणलेशोऽपि । अत एव 'केवलं नित्यदुःखा' इति श्रीवल्ल- भाष्टकोक्तिरपि सङ्गच्छते । न च भगवद्विष्रा एव केचनैव जीवाः सन्ति येषामियं व्यव- स्थेति वाच्यम् । अद्वैतश्रुतिविरोधात् । तस्मादुत्पत्तेरेवाभावान्मार्गभेदव्यवस्था कर्तुमेवाश- क्येति चेत् । अत्रोच्यते । भगवान् हि सर्वरसभोक्ता राजवद्रमणार्थं स्वस्वरूपात्मकं प्रपञ्चं कृतवान् । तत्र च वैरिणोऽप्यपेक्षिताः । अन्यथा वीररसभोगो न स्यात् । स्वांशाश्च वैरिणो न भवन्त्येव । 'यो यदंशः स तं भजते' इति वाक्यात् । तथाच पूर्वोदाहृतश्रुतिस्मृ- तिभिर्भगवता स्वसामर्थ्यरूपया मायया केचन जीवा मायांशा एव 'जीवेशावाभासेन करोती'ति श्रुत्युक्ता व्यावहारिकस्तद्योग्यव्यावहारिकसकलसामग्रीयुक्ताः सृष्टाः सन्तीत्य- वगम्यते । व्यवहारश्च लौकिको गुणानां सन्निपातः । 'अदृष्टान्यतम'मित्यस्य देवक्युद्दे- शेनोक्तस्य भगवतो वाक्यस्य विवरणे 'यद्यपि मत्तोऽन्ये ये केचन सम्भवन्ति मायया सृष्टा' इत्यत्र स्पष्टमिदम् । सप्तत्रिंशाध्यायेऽक्रूरस्तुतौ 'म्लेच्छप्राये'त्यस्य विवरणे च 'म्लेच्छा ये सहजा दैत्यास्ते गुणवन्तोऽपि हन्तव्या' इत्यनेन । अत एव श्रीमदाचार्यैरपि सृष्टिभेदनि- रूपणे निबन्धे 'महेन्द्रजालवत्सर्वं कदाचिन्माययासृजत् । तदा ज्ञानादयः सर्वे वार्ता- मात्रं न वस्तुत' इति पद्याभासे 'स्वप्नादिसृष्टिसङ्ग्रहार्थमाहे'त्यादिपदमेतदभिप्रायकमे- वोक्तम् । अत एव 'मायेत्यसुराः' 'यो यदंशः स तं भजत'इत्यादिश्रुत्यादयोऽपि सङ्ग- च्छन्ते । अत एव श्रीगोकुलनाथचरणैरपि सिद्धान्तमुक्तावलीविवृतिच्छायाः 'सेवा हि सेव- कधर्मस्तदुक्त्या जीवानाम् अशेषाणां सहजदासत्वं ज्ञापित'मिति फक्किकाया व्याख्याने 'आसु- रव्यतिरिक्तानामशेषाणा'मित्युक्तम् । अत एव 'पुमान् विरज्येत विना पशुघ्ना'दिति श्लोक- व्याख्याने 'अनिवर्त्यदोषेण चाप्रवेश' इत्युक्तिराचार्याणामस्माकमाश्रयः । 'सहजासुरत्वेनेत्यर्थ' इति प्रभुचरणतद्विवृतिरपि । अत एव 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दिति 'न सत्यं तेषु विद्यत' इत्यादिश्रुतिभगवद्वाक्ये तेषां व्यावहारिकं सत्त्वं वदतः । अत एव देवकीसुतानयनाय गतवन्तं भगवन्तं स्तुवतो बलेर्वाक्यविवृतौ श्रीमदाचार्यैरुक्तम् , 'ते चेत् द्वेषिणस्तदा तेषां नरकपात आवश्यक इत्या'सुरीं योनिमापन्ना' इति वाक्यानुसारेण कदाचि- दप्यमुक्तौ कथं भगवान् सर्वात्मे'ति । तथाच इच्छामात्रेण निमित्तेन मायोपादानकं प्रवाहं सृष्टवान् । न तु स्वयं तत्र प्रविष्टः । तथाच मायया निर्मितेषु नरकादिरूपविकारेषु ते पतन्तीति न कोऽपि दोष इत्यर्थः । ये च मुच्यन्ते ते च नासुराः । किन्त्वासुरावेशिनः ।