भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 305, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 305

तुभूता सङ्कीर्णेच्छानुमन्तव्या । अत एवं भिन्नेच्छात् अपिशब्दात्फलभेदतश्च नैकधा सर्गा मार्गाश्च एकविधा नेत्यर्थः । नैकतेति पाठे सर्गाणां मार्गाणां चैकता नेत्यर्थः । एवमु- त्पत्तिमारभ्यान्तं मार्गप्रवाहभेदात्प्रमेयबलेन मार्गत्रयभेदः साधितः । तेन प्रमीयमाणा- वस्थासम्बन्धिनः सन्देहा निवारिताः ॥ ९ ॥ अतः परमनुष्ठीयमानावस्थासम्बन्धिनः सन्देहान्परिहर्तुं मार्गसाधनीभूतजीवदेह- क्रियाभिर्भेदः पूर्वप्रतिज्ञातो वक्तव्यः । तेषु जीवानां मुख्यत्वात् प्रथमं तद्भेदं वदिष्यन्त इच्छाभेदेऽपि जीवेषु वैलक्षण्याभावात्कथं फलभेद इत्याशङ्कामपि परिहरिष्यन्तश्चिद्रूपत्वा- विशेषेपि तत्तदसाधारणधर्मभेदाज्जीवा भिद्यन्ते, तेन फलभेद इति हृदिकृत्य अत्यन्तवि- विक्तो धर्मः प्रावाहिकाणामेवेति प्रथमं तानाहुः तानहमित्यादि । 'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिनः । अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तथाच येषां भगवद्वेषोऽसाधारणधर्मस्तेन सार्वदिकोऽतिघोरः संसारस्ततोऽन्धत- मःप्रवेशः पर्यवसाने ते प्रवाहिनः । भगवद्वेषश्च त्रिविधः । मूलरूपावताररूपद्वेषो विभू- त्यादिद्वेषो जगद्रूपद्वेषश्च । तत्र मूलरूपावताररूपान्यतरद्विषो भगवन्तं पश्यन्तः कालं प्राप्य मुच्यन्त इति 'मन्येऽसुरान् भागवता'नित्यत्र व्यवस्थापितम् । 'कामं क्रोध'मिति वाक्याच्च । 'तदेव रूपं दुरवापमाप' 'लेभे गतिं धात्र्युचिता'मिति कंसपूतनयोर्मुक्त्यु- क्तेश्च । विभूतिद्विषस्तु द्वेषत्यागे क्रमेण शुध्यन्ति । 'अत्यागे धर्महीनाः पतन्ति' 'सम्मु- ह्यन्तु हरद्विष' इत्यस्य निबन्धे शिवद्विषां तथा व्यवस्थापनात्समानन्यायेनान्यत्रापि युक्तिसि- द्धत्वात् । एते उभयेऽप्यासुरावेशिन इत्यग्रे सेत्स्यति । जगद्द्विषस्तु जायमाना अन्ततोऽ- न्धन्तमः प्रविशन्ति । इदमपि सुबोधिन्यां स्थापितम् । 'ये चान्धन्तमः प्रविशन्ति, ते केवला एव प्रविशन्ति, न तु प्राणादिसहिता' इत्यपि धृतराष्ट्रं प्रत्यक्रूरवाक्ये 'अकृतार्थं प्रहि- ण्वन्ती'त्यस्य सुबोधिन्यां निर्णीतम् । आर्तभागब्राह्मणे मुक्तेरनुपक्रान्तत्वेन 'अत्रैव समवनी- यन्ते' 'स उ क्ष्वयत्याध्मायत्याध्मातो मृतः शेत' इति श्रुतेस्तादृशपरत्वस्य महता विचारेण व्यवस्थापनात् । इदमत्राग्रिमग्रन्थस्य त्रुटितत्वाद्यथाबुद्धि प्रबोधनायोक्तम् । प्रकृतमनुसरामः । अत एव द्वेषभेदादेव । इतरौ मर्यादापुष्टीस्थौ जीवौ । जात्यभिप्रायेण द्विवचनम् । तेभ्यो विविक्तौ । अत्रापि पूर्ववत्फलभेदमाहुः सान्तौ मोक्षप्रवेशतः । मोक्षोऽक्ष- रप्राप्तिः । प्रवेशः पुरुषोत्तमस्वरूपे । 'विशते तदनन्तर'मिति वाक्यात् । ताभ्यां सान्तौ पर्यवसाने निवृत्तजीवभावौ । प्रावाहिकास्तु ताभ्यां न तथेति त्रयोऽपि जीवा भिन्ना इत्यर्थः । एवं चात्र मोक्षप्रवेशत इति कथनान्मर्यादानामेव वेदोक्तमुक्तेरुक्तत्वाद्भगवति साधारणभावेन प्रमाणेऽभिनिवेशेन यथाविधि वेदोक्तकर्मज्ञानादिप्रवृत्तिपरत्वमेव तेषां