षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 342, कुल 408 में से
संदर्भ में पढ़ें२ सिद्धान्तरहस्यम् । पयन्ति एकादश्यामिति । एकादश्यप्येकादशेन्द्रियदोषनिवर्तिका इति तिथिरपि सैवोक्ता । यथा श्रीगोकुले अन्तरङ्गभक्तसर्वपुरुषार्थसिद्ध्यर्थं तद्वारा सर्वेषामपि गोकुलवासिनां सर्व- पुरुषार्थसिद्ध्यर्थं महानिशायामेव प्रादुर्भावः । तद्वदत्राप्याचार्यार्थं प्रादुर्भूय तद्वारा तदी- यानां सर्वपुरुषार्थसाधकत्वं तत्तुल्यमिति अत्रापि महानिशायामेव प्रादुर्भाव उक्तः । महानिशीति । यथा श्रीगोकुले साक्षाद्व्यूहरहितपूर्णपुरुषोत्तमप्राकट्येनैव भक्ताभिलषितं कृतवान्, तद्वदत्रापि साक्षात्प्राकट्येनैव आचार्यानुपदिष्टवानिति ज्ञापनायोक्तं साक्षाद्भग- वता प्रोक्तमिति । यद्यपि भगवता प्रोक्तमित्येतावत्तैव चारितार्थ्येपि साक्षात्पदो- क्तेरयमाशयः । भगवदुक्तौ प्रकारविशेषा बहव एव संभवन्ति । कचिद्भगवान् स्वोक्तिं सेवकद्वारा ज्ञापयति, क्वचित्स्वप्नद्वारा, कचि'द्दिरं समाधा'विति न्यायेनाकाशवाणीद्वारापि ज्ञापयति । अत्र तूक्तसम्भावितप्रकाराभावपूर्वकं स्वयं साक्षात्पूर्णप्राकट्येनाचार्यानुपदिष्ट- वानिति ज्ञापनायोक्तं साक्षादिति । उक्तौ प्रशब्दोक्त्या अत्रोक्तिः केवलं कृपयाविर्भूय, नत्वाचार्यप्रार्थनयेति ज्ञापनाय प्रशब्दोपादानम् । साक्षाद्भगवद्वाक्यकथनं सर्वेषां सम्यक् हृदयारूढं न भवतीति तस्माद्वाक्यार्थ एव यथा यथा सम्यक् हृदयारूढो भवति, तथा पद्यबन्धेन कथनं प्रतिजानते तदक्षरश उच्यत इति । तदेव पूर्वोक्तमक्षरशः प्रत्य- क्षरार्थविचारपूर्वकं उच्यते निरूप्यत इत्यर्थः ॥ १ ॥ एवं कथनं प्रतिज्ञाय साक्षात्स्वमार्गीयसेवाप्रतिबन्धकासाधारणदोषनिवृत्तिप्रकारं भगवदुक्तं प्रथमत आहुः ब्रह्मसम्बन्धकरणादिति । ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ ब्रह्मसम्बन्धकरणं नाम एतन्मार्गीयाचार्यद्वारा भगवन्निवेदनम् । तेनैव सर्वेषां देहानां सर्वेषां जीवानां च सेवाप्रतिबन्धकसर्वदोषनिवृत्तिर्भवति । ननु 'वेदान्ते च स्मृतौ ब्रह्मलिङ्गं भागवते तथा । ब्रह्मेति परमात्मेति भगवानिति शब्द्यत' इत्याचार्यवचनादुपनिष- त्स्वेव ब्रह्मपदं पुरुषोत्तमवाचकम्, नत्वन्यत्र, तथाप्यत्र ब्रह्मपदोपादानस्यायमाशयः । यथा ब्रह्मणि सर्वसमत्वं धर्मोस्ति, तद्वदत्रापि आचार्यनिवेदनानन्तरं सर्वेषामङ्गीकारे समत्वमेव, न तु वैषम्यमपीति ज्ञापनायात्र ब्रह्मपदोपादानम् । यद्वा । यथा गीतासु 'भगवद्गीतासूपनिषत्सु ब्रह्मविद्याया'मित्यादिवचनाद्भगवद्वाक्यानामेवोपनिषद्रूपत्वम्, तद्वद- त्रापि ब्रह्मसम्बन्धकरणादित्यादिवाक्यानां भगवद्वाक्यत्वेनोपनिषद्रूपत्वादत्र ब्रह्मपदस्य पुरुषोत्तमवाचकत्वमेवेति ब्रह्मपदोपादानम् । तेनास्मिन्भक्तिमार्गे भगवदीयत्वेनैव सर्वदो- षनिवृत्तिः । सेवायोग्यत्वं च । अत एव श्रुतिरप्याह 'यमेवैष वृणुते तेन लभ्य' इति । अस्मिन्मार्गे भगवद्वरणस्यैव दोषाभावहेतुत्वात् । दोषरहितस्यैव भगवत्प्राप्तिहेतुत्वात् । तस्मादस्मिन्मार्गे भगवदीयत्वमेव सर्वदोषनिवृत्तिहेतुः । ननु पूजामार्गे पूजार्थं दोषनिवृ-