षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 354, कुल 408 में से
संदर्भ में पढ़ें१४ सिद्धान्तरहस्यम् । क्षरशः, यानि भगवदुक्तान्येवाक्षराणि तदक्षररचितपद्यबन्धेन प्रत्यक्षरार्थविचारेण वा मयोच्यते । तत्र कदा कस्मिन्काले वैतदुक्तमित्याशङ्कायामाहुः श्रावणस्येति । श्रावण- मासस्यामले पक्षे । श्रवणस्य विष्णुदैवतत्वात्तदुपलक्षितमासस्यापि तथात्वम् । अत एव लौकिककार्येषु शून्यत्वेन गणनायामपि वैष्णवमन्त्रोपदेशेषु प्रशस्तः । तदुक्तं 'श्रावणे सुख- सम्पत्ति'रिति । तेन यथा श्रावणमासस्य दैवतं विष्णुः, तथा देवानाम्, तत्रापि पुष्टि- मार्गीयाणां दैवतं प्रभुः साक्षाद्भगवानिति तेषां भगवदधीनत्वमेव, न कालकर्माधीनत्व- मितरमार्गीयाणामिव । अतोऽहमेवैतेषां दोषान्नाशयामि, न दानव्रततपआदिसाधनानि । ते नाङ्गीकर्त्तव्या इति ज्ञापितम् । ननु तथापि भगवता ते दोषा नाशिताश्चेत्, तदाङ्गी- कर्त्तव्या इति चेत्, तत्राहुः अमले पक्ष इति । स पक्षो यथा स्वरूपतो निर्मल एव, यथा यथा चन्द्रप्रकाशः, तथा रसानन्दपोषेणाह्लादकश्च, तथायं पुष्टिमार्गीयपक्षोपि वस्तुविचारे कृते स्वरूपतः शुद्ध एव जीवकृत्यसाध्यः ब्रह्मादीनामप्यगम्यः केवलाङ्गी- कारबलेनैव तादृशानन्दपोषकश्चेति ज्ञापनाय स एव पक्ष उक्तः । एवं सति स्वरूपतः शुद्धत्वेपि पक्षस्य तज्जीवानां तु मध्येऽविद्यान्तरायजनितभगवदानन्दतिरोभावात् दुःसं- सर्गात्संसारावेशेन दुष्टत्वाद्भगवदङ्गीकारानन्तरमेव मद्भजनाधिकारे सम्पन्ने भजनेनैव ते दोषा यथा यथा नष्टा भविष्यन्ति, तथा तथा तादृशानन्दपोषणेन तेऽतिशुद्धा भविष्यन्तीति भावः । ननु भोगं विना कथं नष्टा भविष्यन्ति, तत्राहुः एकादश्यामिति । एकादशी हरिदिनमुच्यते । एकादशेन्द्रियशोधिका च । हरिस्तु भक्तानां दुःखहर्त्ता । यदि मर्यादामार्गेऽपि दुःखं न सहते, तर्हि पुष्टिमार्गे सुतरां न सहते इति भक्तानां दोषभोगक्लेशं न कारयतीति भावः सूचितः । किञ्च । भजनाधिकारे सम्पन्ने सर्वेषां भगवत्येव विनियोगकरणे ते स्वत एव नङ्क्ष्यन्तीति कुतस्तद्भोगसम्भावनेत्यपि सूचितम् । ननु तथाप्ययं कलिकालस्तु दोषनिधिः, तत्कथं सर्वथा दोषाभावेन फलं सेत्स्यति, तत्राहुः महानिशीति । महानिशा आसुरी वेला महादोषरूपा, परन्तु पुष्टिमार्गीयाणामर्थे तस्मिन्नेव समये तान् दोषान् दूरीकृत्य प्रकटो जातः, तथात्राप्ययमेव कालः साधको भविष्यतीति तथोक्तम् । ननु कदाचित्तथा प्राकट्यं न भवेत्, तत्राहुः साक्षादिति । एतावदलौकिककरणे सामर्थ्यं किमित्याशङ्कायामुक्तं भग- वतेति । अलौकिकैश्वर्यादिना स सर्वकरणसमर्थ इति । एवं सत्येतावत्सर्वाभिप्रायज्ञाप- नायैव श्रावणस्येत्यादिपदैः समय उक्तो, नो चेत्प्रयोजनं विना किमर्थं वदेयुः । एतेनै- तदङ्गीकारे दोषनिवृत्तिप्रतीक्षा न कार्येत्युपक्रमेण तात्पर्यार्थः सूचितः ॥ १ ॥ अतः परं जीवाङ्गीकारे दोषनिवृत्तिप्रतीक्षा न कार्येत्युपकारार्थं यदुक्तं तन्निरूप्यते । ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधा मताः ॥ २ ॥ १. मूलेऽयमेव शुद्धः पाठः, तथापि केनचित् न जीवकृत्यसाध्य इति कृतः । २. तदिति पाठः ।