भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 356, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 356

संयोगजा इति । पूर्वोक्तानां सङ्गेन अविद्यासंयोगः सतामपि भवतीति । ‘तत्संसर्गी च पञ्चम’ इति वाक्यात्तत्संयोगजनिता दोषास्तेष्वपि वर्तन्त इति तेषामपि तथात्वम् । ननु तादृशानां दुष्टसङ्गः कथं भवेत्, तत्राहुः स्पर्शजा इति । परम्परासम्बन्धेनापि तद्द्रव्यान्ना- दिसंसर्गात्तद्दोषस्पर्शो भवत्येवेति तादृशकर्मस्पर्शजनितत्वात् स्पर्शजा उक्ताः । चकाराद- नुक्ता अपि ज्ञेयाः । परम्परासम्बन्धेनापि स्पर्शोऽस्मिन्मार्गे बाधक इति समर्पणानन्तरं तादृशानां परम्परासम्बन्धस्पर्शोपि न भवेत्तथा स्थेयमिति ज्ञाप्यते । यद्वा । संयोगजा इति । यद्यपि केचन समीचीना अपि भविष्यन्ति, तथापि स्वपाण्डित्याभिमानात्तत्तच्छा- स्रमतेष्वेव प्रवृत्त्या तत्संयोगजनितदोषेण भगवद्भजनधर्मेष्वेवासन्मतिस्तेषामिति संयोगजा उक्ताः । भगवद्भजने सन्मतिल्वेपि तेषां सकलविधिद्वारैव तत्तन्मार्गे प्रवृत्तिस्ते मार्गस्ता- दृशा एवेति तथात्वमेव । स्वमार्गस्तु समस्तविधिभिरस्पृष्टः । स्वमार्गीयप्रभुरपि तदस्पृष्ट एवेति तेषु तत्स्पर्शजनितदोषास्तु वर्तन्त एवेति स्पर्शजा उक्ताः । एवमपि मायोद्भवत्व- कर्मोद्भवत्वे निरूपिते । एतेन तत्स्पर्शमात्रगन्धेपि प्रभुभजनानधिकार एवेत्युक्तम् । अतः- परमेते दोषा भजनानधिकारसम्पादका इत्यत्र प्रमाणमाहुः लोकेति । लोके स्मृतिपुरा- णादिषु तत्कृतत्वात्तेषां तथात्वमुक्तम् । अलौकिके वेदे च निरूपिताः । भगवद्भजनान- धिकारसम्पादकत्वेन प्रसिद्धाः । तदुक्तम् ‘नाहं वेदैः’ ‘न रोधयती’ति ‘नायमात्मे’त्या- दिना । यद्यप्येतादृशेषु सत्सु सर्वथा साक्षात्पुरुषोत्तमभजनानधिकारादयोग्यता, तथापि पुष्टिमार्गस्य लोकवेदातीतत्वेन केवलाङ्गीकारैकलभ्यत्वेन तत्राङ्गीकारकरणे ते दोषा न मन्तव्याः । तस्य भजनाधिकारसम्पादकत्वात् । अङ्गीकारानन्तरं भजनेनैव ते नङ्क्ष्यन्तीति तच्छङ्कापि न कर्तव्येति कदाचनेत्युक्तम् ॥ ३ ॥ ननु दोषनिवृत्त्यनन्तरमेवाङ्गीकारे का क्षतिः, तत्राहुः अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४॥ मदुक्तप्रकारकाङ्गीकाराभावे त्वेतेषां दोषाणां निवृत्तिः कथञ्चन अपि न, सहस्रज- न्मपर्यन्तमपि कृतैः साधनैर्न भविष्यतीत्यर्थः । साधनानामस्वधर्मत्वात् । दासानां तु सेवैव स्वधर्म इत्यङ्गीकारेणैव तदधिकारे सम्पन्ने सर्वेन्द्रियाणां तदर्थमेव विनियोगे सति तन्नाशो भवेदिति भावः । एवमङ्गीकारेण दोषनिवृत्तिप्रकारं निरूप्य ब्रह्मसम्बन्धकरणानन्तरं सेवायां जाताधिकारस्य तस्य देहेन्द्रियादीनां सर्वेषां दुःसंसर्गदुष्टान्न सम्बन्धस्य प्रबलबाधकत्वात्, तत्त्यागकथनेनैतन्मार्गस्थितिप्रकाराभाव एव, तदभावे तु सर्वथा पूर्वोक्तदोषानिवृत्तिरिति । समर्पितात्मनो ह्यसमर्पितवस्तुसम्बन्धो बाधकः, तस्मादसमर्पितानां सम्बन्धिनां वस्तूनां असमर्पितानां च वस्तूनां वर्जनं त्यागं कुर्यात् । अत्रेदं भाति । स्वयं समर्पितात्मा प्रभुणा १ भजनाधिकारायोग्यतेति पाठः ।