षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 356, कुल 408 में से
संदर्भ में पढ़ेंसंयोगजा इति । पूर्वोक्तानां सङ्गेन अविद्यासंयोगः सतामपि भवतीति । ‘तत्संसर्गी च पञ्चम’ इति वाक्यात्तत्संयोगजनिता दोषास्तेष्वपि वर्तन्त इति तेषामपि तथात्वम् । ननु तादृशानां दुष्टसङ्गः कथं भवेत्, तत्राहुः स्पर्शजा इति । परम्परासम्बन्धेनापि तद्द्रव्यान्ना- दिसंसर्गात्तद्दोषस्पर्शो भवत्येवेति तादृशकर्मस्पर्शजनितत्वात् स्पर्शजा उक्ताः । चकाराद- नुक्ता अपि ज्ञेयाः । परम्परासम्बन्धेनापि स्पर्शोऽस्मिन्मार्गे बाधक इति समर्पणानन्तरं तादृशानां परम्परासम्बन्धस्पर्शोपि न भवेत्तथा स्थेयमिति ज्ञाप्यते । यद्वा । संयोगजा इति । यद्यपि केचन समीचीना अपि भविष्यन्ति, तथापि स्वपाण्डित्याभिमानात्तत्तच्छा- स्रमतेष्वेव प्रवृत्त्या तत्संयोगजनितदोषेण भगवद्भजनधर्मेष्वेवासन्मतिस्तेषामिति संयोगजा उक्ताः । भगवद्भजने सन्मतिल्वेपि तेषां सकलविधिद्वारैव तत्तन्मार्गे प्रवृत्तिस्ते मार्गस्ता- दृशा एवेति तथात्वमेव । स्वमार्गस्तु समस्तविधिभिरस्पृष्टः । स्वमार्गीयप्रभुरपि तदस्पृष्ट एवेति तेषु तत्स्पर्शजनितदोषास्तु वर्तन्त एवेति स्पर्शजा उक्ताः । एवमपि मायोद्भवत्व- कर्मोद्भवत्वे निरूपिते । एतेन तत्स्पर्शमात्रगन्धेपि प्रभुभजनानधिकार एवेत्युक्तम् । अतः- परमेते दोषा भजनानधिकारसम्पादका इत्यत्र प्रमाणमाहुः लोकेति । लोके स्मृतिपुरा- णादिषु तत्कृतत्वात्तेषां तथात्वमुक्तम् । अलौकिके वेदे च निरूपिताः । भगवद्भजनान- धिकारसम्पादकत्वेन प्रसिद्धाः । तदुक्तम् ‘नाहं वेदैः’ ‘न रोधयती’ति ‘नायमात्मे’त्या- दिना । यद्यप्येतादृशेषु सत्सु सर्वथा साक्षात्पुरुषोत्तमभजनानधिकारादयोग्यता, तथापि पुष्टिमार्गस्य लोकवेदातीतत्वेन केवलाङ्गीकारैकलभ्यत्वेन तत्राङ्गीकारकरणे ते दोषा न मन्तव्याः । तस्य भजनाधिकारसम्पादकत्वात् । अङ्गीकारानन्तरं भजनेनैव ते नङ्क्ष्यन्तीति तच्छङ्कापि न कर्तव्येति कदाचनेत्युक्तम् ॥ ३ ॥ ननु दोषनिवृत्त्यनन्तरमेवाङ्गीकारे का क्षतिः, तत्राहुः अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४॥ मदुक्तप्रकारकाङ्गीकाराभावे त्वेतेषां दोषाणां निवृत्तिः कथञ्चन अपि न, सहस्रज- न्मपर्यन्तमपि कृतैः साधनैर्न भविष्यतीत्यर्थः । साधनानामस्वधर्मत्वात् । दासानां तु सेवैव स्वधर्म इत्यङ्गीकारेणैव तदधिकारे सम्पन्ने सर्वेन्द्रियाणां तदर्थमेव विनियोगे सति तन्नाशो भवेदिति भावः । एवमङ्गीकारेण दोषनिवृत्तिप्रकारं निरूप्य ब्रह्मसम्बन्धकरणानन्तरं सेवायां जाताधिकारस्य तस्य देहेन्द्रियादीनां सर्वेषां दुःसंसर्गदुष्टान्न सम्बन्धस्य प्रबलबाधकत्वात्, तत्त्यागकथनेनैतन्मार्गस्थितिप्रकाराभाव एव, तदभावे तु सर्वथा पूर्वोक्तदोषानिवृत्तिरिति । समर्पितात्मनो ह्यसमर्पितवस्तुसम्बन्धो बाधकः, तस्मादसमर्पितानां सम्बन्धिनां वस्तूनां असमर्पितानां च वस्तूनां वर्जनं त्यागं कुर्यात् । अत्रेदं भाति । स्वयं समर्पितात्मा प्रभुणा १ भजनाधिकारायोग्यतेति पाठः ।