षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 371, कुल 408 में से
संदर्भ में पढ़ेंश्रीविठ्ठलेश्वरकृतविवृतिसमेतम् । ३१ यूयं प्रियाः स्थ भगवान् यथा, न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ।' तस्मा- च्छिवतिथिरुक्ता । महानिशीथस्यायमाशयः । यत् शृङ्गाररसलीलाभजनमुक्तम् । उक्तं च चतुर्थस्कन्धे 'संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीला- कथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्ये'ति ॥ १ ॥ ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधा मताः ॥ २ ॥ ब्रह्मसम्बन्धकरणादिति । इदानीं श्रीमदाचार्यैः श्रीगिरिधरं प्रति प्रश्नः कृतः । यत् हे सुन्दरीकान्त, भवता आज्ञा दत्ता, यज्जीवानां मदीयभजनमार्गं निरूपय । तत्र ते जीवाः सकलदोषनिधानम्, भगवान् सकलगुणनिधानम् । भगवान् पूर्णपुरुषोत्तमः । जीवस्त्वपूर्णः पुरुषाधमः । तर्हि भगवद्भजनं कर्तुं कथं योग्यो भवति । तथा च श्रुतिः 'देवो भूत्वा देवान् यजेते'ति । तदा श्रीमद्गिरिधारिणोक्तम्-यद्ब्रह्मसम्बन्धकरणात् सर्व- दोषनिवृत्तिः । भगवद्भजनं कर्तुमुद्युक्तो यो जीवः स तत्कालं शुद्धो भवति । तस्य शुद्ध- जीवस्य मया सह सम्बन्धः कार्यः। अथवा । ब्रह्मणा मया सह सम्बन्धः कार्यः। तत्सम्बन्ध- प्रकारा दशमस्कन्धे उक्ताः 'कामं क्रोधं भयं स्नेह'मिति श्लोके । तेषु षट्सु कामसंबन्ध उत्तमः । कामसम्बन्धात् सकलदोषनिवृत्तिः । तत्र तत्संबन्धेन यथा कस्यचिद्राज्ञो दुःकुला स्त्री कामसंबन्धेन भजन्ती राजतुल्या स्यात्, तथा अनन्यत्वेन जीवो मां भजन् शुद्धः स्यात् । कामसंबन्ध इति किम् । साध्व्या आचारः । अथ च स्वैरिणीवत् नित्यनूतन- भावेन भजनमिति । उक्तं च दशमस्कन्धे 'मयि निर्बद्धहृदयाः साधवः समदर्शिनः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'ति । एतेनानन्यत्वेन व्यभिचारिण्या भाव- मादाय भजनं विधेयमिति कामसम्बन्धः । तथा चोक्तं सप्तमस्कन्धे 'नन्वद्धा मयि कुर्वन्ति कुशलाः स्वात्मदर्शनाः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा' । पुनराचार्यैः पृष्टम्, यत् पतिभावभजने वर्णाश्रमाणां मध्ये कोऽधिकारी । तदा श्रीमद्गिरिधारिणोक्तम्, जीवमात्रस्य भगवद्भजनेऽधिकारः । उक्तं च सप्तमस्कन्धे 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वे'ति । सर्वेषां देहजीवयोरिति । अस्यायमर्थः । यथा देहस्य जीवसंबन्धात् सर्वदोषनिवृत्तिस्तथा ब्रह्मसंबन्धकरणादिति । यथा जीवमन्तरेण देहः अपूर्णः, तत्स- म्बन्धेन सकलगुणपूर्णः, तथा ब्रह्मसम्बन्धादिति । यथा जीवो देहदुःखेनार्तुरो भवति, तथाहं भक्तदुःखेनार्तुरो भवामीत्यर्थः । अथवा । देहजीवयोरिति । भगवद्भजनेन तस्य हीनजा- तिरोगादयो दोषाः, तथा हिंसादिपातकानि व्रजन्तीत्यर्थः । उक्तं च तृतीयस्कन्धे 'श्वपा- दमूलं भजतः प्रियस्ये'ति । पुनः श्रीमदाचार्यैः पृष्टम्, दोषा गता इति कथं ज्ञायते । तदा श्रीमद्गिरिधारिणोक्तम्, सर्वदोषनिवृत्तिर्हीतिशब्देन । निश्चयो यदा उत्पद्यते, तदा सर्वे दोषा गता इति ज्ञातव्यम् । उक्तं च भारते 'वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।