षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 382, कुल 408 में से
संदर्भ में पढ़ेंचतुर्थे बहिर्मुखकृतप्रायश्चित्तस्य 'सुराभाण्डमिवापगा' दृष्टान्तेन वैफल्यमुक्त्वा, पञ्चमे सकृद्भग- वच्चरणनिवेशितमनस्तद्गुणरागि येषां जातम्, तेषां यमत्तद्भटदर्शनाभावबोधनेन पापानां निःशेषनाशो निगमितः, ततोऽजामिलोपाख्याने प्रपञ्चितश्च । अतो भगवद्भक्तसङ्गो दाम्भिकतत्सङ्गत्यागः साधनान्तरश्रद्धाराहित्यं भगवद्गुणरागिचित्तत्वं च यदा भवति, तदा तथेति । यतस्तस्यापि निर्णयः श्रीमदाचार्यैस्तत्रत्यनिबन्धे 'भगवत्सेवका ये तु कथञ्चिद्भिन्नतां गताः। सर्वात्मना पापनाशस्तेषामेव भवेत् ध्रुव'मिति कारिकया निरूपितः। एवं सति ये पूर्वं भगवत्सेवकाः कुतश्चन हेतोरिहागताः, तेषामेवार्थेऽयं मार्ग इति त एव ब्रह्मसम्बन्धकरणे तेन निवृत्तसर्वदोषा भवन्ति । त एव च तत्राधिकुर्वन्ति । अत एव निबन्धारम्भे 'सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिणः । भवान्तसम्भवा दैवात्तेषामर्थे निरूप्यत' इत्युक्तम् । एवं च यद्यपि 'सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृपे'ति माघस्नानविषयकवाक्योक्तदृष्टान्तात् 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय'मिति सप्तमस्कन्धीयप्रह्लादवाक्याच्च स्वरूपयोग्यतारूपः सर्वेषामधिकारः, तथापि फलमुख उक्तविधानामेव। अतो ब्रह्मसम्बन्ध- स्तादृशामेव कारणीयः । तादृशत्वं चोत्कटभजनादरजनिकया गुरुशुश्रूषया तदनुकूलप्रश्न- मार्गसञ्चित्तैःस्वभाषाचारैश्चावधारणीयम् । यः पुनः पूर्वं पापाचारः पश्चाद्भगवन्मार्ग उत्कण्ठते, सोप्युपदेश्यः, 'अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्य- ग्व्यवसितो हि स' इतिवाक्ये तादृशस्यापि साधुतया मन्तव्यत्वकथनात् । 'क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति' इत्यने- नाग्रे तदभिज्ञापकस्यास्यापि कथनाच्च । यस्तु स्वयमनुत्कण्ठः सत्सङ्गात्कुलपारंपर्याद्ध्योपसी- देत्, सोप्युपदेशमर्हति । परं तत्र भगवत्कृपायाः सन्दिग्धत्वात्फलमुखता न निश्चेतुं शक्या। तथापि तदुपदेशेपि न दोषमावहति । सत्सङ्गादिना तथा सम्भावनया कृतत्वात् । स परं परीक्षणीयः। यदि पश्चाच्छ्रद्धते भगवद्धर्मे, तदा तु 'यथा यथा हरिः कृष्णो मनस्याविशते निजे । तथा तथा साधनेषु परिनिष्ठा विवर्धत' इत्याचार्यचरणोक्तात् ज्ञापकान्मार्गरीत्या बोधनीयः । यद्युदास्ते, तदा न बोधनीयः । यदा तु बाहिर्मुख्यं प्रकटयति, तदा तूपेक्षणीयः । 'ईश्वरे तदधीने च बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यम' इत्येकादशस्कन्धे योगेश्वरवाक्ये भागवतलक्षणे तथोक्तत्वात् । 'निवेदितात्मभिन्नेषु सदौ- दासीन्यमाचरेत् । प्रावाहिकास्तेपि चेत् स्युरुपेक्षैवोचिता सदे'ति विज्ञप्तौ प्रभुचरणैरपि तथोक्तत्वात् । 'विजातीयजनाक्रान्ते निजधर्मस्य गोपनम् । देशे विधाय सततं स्थे- मित्येव भासते। हरेरेव तथेच्छास्ति सर्वोद्धृतिविरोधिनी । अन्यथाचार्यविमुखाः कथमेत- त्पथि स्थिता' इति पत्रेऽपि तथा लिखितत्वाच्च । तदेतदौच्छृङ्खल्यनिवारणाय मार्गरीति- बोधनाय तत्रान्यथाबुद्ध्यपहाराय च प्रसङ्गादुक्तम् ।
१ इदं पत्रं वेणुनादे मुद्रितम् ।