षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 390, कुल 408 में से
संदर्भ में पढ़ें५० सिद्धान्तरहस्यम् । पूर्वसमुच्यत इत्यर्थः । किञ्च । अत्र श्रावणमासोक्त्यां ऋतुराप वर्षाख्य उक्तो भवति । तस्यायमाशयः । वर्षर्तोः सर्वरसोत्पादकत्वान्निदाघतप्तस्थिरचरतापापहारकत्वादिसद्धर्मवत्त्वा- दत्रोपदिष्टमार्गस्यापि भगवत्सम्बन्धिसर्वरसोत्पादकत्वं सर्वतापापहारकत्वादिकत्वं च सूचितं भवतीति ॥ १ ॥ एवं पूर्वपीठिकामुक्त्वा भगवदुक्तपदार्थमाहुः ब्रह्मेति । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ अस्मिन्मार्गे यशोदोत्सङ्गलालित श्रीकृष्णस्यैवोपास्यत्वात् तस्य चाज्ञलोके अवता- रमात्राभ्रमत्वादत्र तद्व्यावृत्त्यर्थं ब्रह्मपदोपादानम् । अथवा । भगवद्वाक्यार्थकथनाद्वेदे इवा- त्रापि ब्रह्मपदम् । तथा च तेन ब्रह्मणा सह देहजीवयोर्यः सम्बन्धः स्वमार्गीयनिवेदनेन तदीयत्वसम्पादनलक्षणस्तत्करणात्सर्वेषां दैवजीवमात्राणां सर्वदोषनिवृत्तिर्भवति । सर्वपदेन देहजीवयोस्तद्धर्मीणां तत्र तत्सम्बन्धिनां च सर्वेषां सम्बन्धिनां यावन्तो दोषास्तेषां सर्वेषां निवृत्तिर्भवति । लापनिका तु, देहजीवयोर्ब्रह्मसम्बन्धकरणात् सर्वेषां तद्धर्मीणां तत्सम्बन्धिनां च सर्वदोषनिवृत्तिर्भवति । यद्वा । सर्वेषामैहिकामुष्मिक- पदार्थमात्राणां देहजीवयोश्च तत्सम्बन्धे सत्येतत्सर्वगतसर्वदोषनिवृत्तिर्भवति । शेषमुभय- त्रापि पूर्ववत् । हीति युक्तोयमर्थः । यद्भगवत्सम्बन्ध एव सति सर्वेषां सर्वदोषनिवृत्ति- र्भवति, नान्यथापीति । ननु अत्र निवेदनशब्दवाच्या किंरूपा भक्तिरुच्यते, दानापर- पर्याया वा, काचिदन्यैव वा । तत्र नाद्या, 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तर' मित्या- दिवचनविरोधात् । नह्येकस्मै देवाय दत्तं वस्तु पुनः तदेवान्यस्मै दातुं शक्यमुचितं वा, तत्र स्वीयत्वाभावात् । स्वीयवस्तुन एव हि दानार्हत्वात् । न द्वितीयः । मानाभावात् । नहि पूर्वोक्तान्निवेदनरूपाद्भिन्नं रूपं कुत्रापि प्रमाणसिद्धमस्ति । अतो विचार्यमाणे तदी- यत्वसम्पादनरूपैव सेति पर्यवस्यति । किञ्च । त्वयापि 'यश्चात्मानं निवेदये'दित्यादि- स्थलेष्वयमेवार्थोऽस्य शब्दस्य वक्तव्यः, अर्थान्तरकल्पनाया अनिर्वाहात् । एवं च सति निवेदनाख्यभक्त्या स्वात्मादिसकलपदार्थमात्रस्य भगवदीयत्वसम्पत्तिर्भवतीति निःप्रत्यूहम- वेहि । अथ निवेदनस्यावश्यकर्तव्यताकत्वमुक्तमेकादशे । 'दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् । एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोन्योऽर्थोस्यावशिष्यत' इति । इयं तु भक्तिः प्रेमलक्षणा फलरूपेति बोध्यम् । अन्यच्च तत्रैव । 'मर्त्यो यदा त्यक्तसमस्तधर्मा निवेदितात्मा विचिकित्सितो मे । तदामृतत्वं प्रति- पद्यमानो मयात्मभूयाय च कल्पते वै' इत्यादिभिः । किञ्च । भगवद्भक्तेर्बहुविधत्वेपि श्रवणादिनवविधाया एव मुख्यत्वेन प्रेमलक्षणासाधनत्वेन सर्वत्र प्रसिद्धेर्निवेदनाकरणे तस्या नवविधत्वाभावादपूर्णसाधनरूपायास्तस्या न पूर्णफलजनकत्वं भवतीति तत्करण- स्यावश्यकत्वम् । अत एव श्रीमत्प्रभुचरणैरप्युक्तं नवरत्नप्रकाशे 'आत्मनिवेदिनो हि भगवद्भजनार्हाः, नेतर' इति । ननु देहादीनां समर्पणं तेन च शुद्धिरित्यस्तु नाम, युक्ति-