भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 390, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 390

५० सिद्धान्तरहस्यम् । पूर्वसमुच्यत इत्यर्थः । किञ्च । अत्र श्रावणमासोक्त्यां ऋतुराप वर्षाख्य उक्तो भवति । तस्यायमाशयः । वर्षर्तोः सर्वरसोत्पादकत्वान्निदाघतप्तस्थिरचरतापापहारकत्वादिसद्धर्मवत्त्वा- दत्रोपदिष्टमार्गस्यापि भगवत्सम्बन्धिसर्वरसोत्पादकत्वं सर्वतापापहारकत्वादिकत्वं च सूचितं भवतीति ॥ १ ॥ एवं पूर्वपीठिकामुक्त्वा भगवदुक्तपदार्थमाहुः ब्रह्मेति । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ अस्मिन्मार्गे यशोदोत्सङ्गलालित श्रीकृष्णस्यैवोपास्यत्वात् तस्य चाज्ञलोके अवता- रमात्राभ्रमत्वादत्र तद्व्यावृत्त्यर्थं ब्रह्मपदोपादानम् । अथवा । भगवद्वाक्यार्थकथनाद्वेदे इवा- त्रापि ब्रह्मपदम् । तथा च तेन ब्रह्मणा सह देहजीवयोर्यः सम्बन्धः स्वमार्गीयनिवेदनेन तदीयत्वसम्पादनलक्षणस्तत्करणात्सर्वेषां दैवजीवमात्राणां सर्वदोषनिवृत्तिर्भवति । सर्वपदेन देहजीवयोस्तद्धर्मीणां तत्र तत्सम्बन्धिनां च सर्वेषां सम्बन्धिनां यावन्तो दोषास्तेषां सर्वेषां निवृत्तिर्भवति । लापनिका तु, देहजीवयोर्ब्रह्मसम्बन्धकरणात् सर्वेषां तद्धर्मीणां तत्सम्बन्धिनां च सर्वदोषनिवृत्तिर्भवति । यद्वा । सर्वेषामैहिकामुष्मिक- पदार्थमात्राणां देहजीवयोश्च तत्सम्बन्धे सत्येतत्सर्वगतसर्वदोषनिवृत्तिर्भवति । शेषमुभय- त्रापि पूर्ववत् । हीति युक्तोयमर्थः । यद्भगवत्सम्बन्ध एव सति सर्वेषां सर्वदोषनिवृत्ति- र्भवति, नान्यथापीति । ननु अत्र निवेदनशब्दवाच्या किंरूपा भक्तिरुच्यते, दानापर- पर्याया वा, काचिदन्यैव वा । तत्र नाद्या, 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तर' मित्या- दिवचनविरोधात् । नह्येकस्मै देवाय दत्तं वस्तु पुनः तदेवान्यस्मै दातुं शक्यमुचितं वा, तत्र स्वीयत्वाभावात् । स्वीयवस्तुन एव हि दानार्हत्वात् । न द्वितीयः । मानाभावात् । नहि पूर्वोक्तान्निवेदनरूपाद्भिन्नं रूपं कुत्रापि प्रमाणसिद्धमस्ति । अतो विचार्यमाणे तदी- यत्वसम्पादनरूपैव सेति पर्यवस्यति । किञ्च । त्वयापि 'यश्चात्मानं निवेदये'दित्यादि- स्थलेष्वयमेवार्थोऽस्य शब्दस्य वक्तव्यः, अर्थान्तरकल्पनाया अनिर्वाहात् । एवं च सति निवेदनाख्यभक्त्या स्वात्मादिसकलपदार्थमात्रस्य भगवदीयत्वसम्पत्तिर्भवतीति निःप्रत्यूहम- वेहि । अथ निवेदनस्यावश्यकर्तव्यताकत्वमुक्तमेकादशे । 'दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् । एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोन्योऽर्थोस्यावशिष्यत' इति । इयं तु भक्तिः प्रेमलक्षणा फलरूपेति बोध्यम् । अन्यच्च तत्रैव । 'मर्त्यो यदा त्यक्तसमस्तधर्मा निवेदितात्मा विचिकित्सितो मे । तदामृतत्वं प्रति- पद्यमानो मयात्मभूयाय च कल्पते वै' इत्यादिभिः । किञ्च । भगवद्भक्तेर्बहुविधत्वेपि श्रवणादिनवविधाया एव मुख्यत्वेन प्रेमलक्षणासाधनत्वेन सर्वत्र प्रसिद्धेर्निवेदनाकरणे तस्या नवविधत्वाभावादपूर्णसाधनरूपायास्तस्या न पूर्णफलजनकत्वं भवतीति तत्करण- स्यावश्यकत्वम् । अत एव श्रीमत्प्रभुचरणैरप्युक्तं नवरत्नप्रकाशे 'आत्मनिवेदिनो हि भगवद्भजनार्हाः, नेतर' इति । ननु देहादीनां समर्पणं तेन च शुद्धिरित्यस्तु नाम, युक्ति-