षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 392, कुल 408 में से
संदर्भ में पढ़ें५२ सिद्धान्तरहस्यम् । रात् कर्मजा अपि कुष्ठापस्मारादयः । कामक्रोधादयो वा । अथवा । लोकवेदनिरूपिता इत्युक्तपञ्चविधानामपि विशेषणम् । पदार्थमात्रस्य लोकवेदनिरूपितत्वात्तद्योगात् । तदा पञ्चमप्रकारकाश्चकारोक्तकर्मजादयः, शेषं प्राग्वत् । एते पञ्चविधा अपि दोषाः पूर्वं तेषु तेषु विद्यमाना अपि निवेदनसमये तदनन्तरं च दैवात् कदाचित्तिष्ठेयुरपि चेत्तथापि कथंचन केनापि प्रकारेण न मन्तव्या न विचारणीया इत्यर्थः । ननु निवेदनकरणमा- त्रेण सहसैव सर्वदोषनिवृत्तिः कथं भवति ? अथ दृश्यते च न तन्निवृत्तिरिति चेत्, मैवम् । मूल एव न मन्तव्या इत्युक्तत्वात् । स्थिता अपि दोषा दोषत्वेन न गणनीया इत्यभि- प्रायेण । एतच्चाग्रे स्वयमेव विशदयिष्यन्ति गङ्गादृष्टान्तेन । अत्रेदमेव शुद्धिस্বরূপमिति सर्वं सुस्थम् । अत एव 'अपि चेत् सुदुराचारः' 'बाध्यमानोपि मद्भक्तः', 'मां हि पार्थ व्यपाश्रित्ये'त्यादि भगवतोक्तम् । 'किरातहूणान्ध्रे'त्यादि शुकेन । अन्यैरप्यन्यत्र बहुशः । ननु प्रायश्चित्तादिना पूर्वं तान्निवार्य पश्चाद्भगवत्सम्बन्धः कुतो न कार्य इति चेत्, तत्राहुः । अन्यथेत्यादि । अन्यथा भगवत्सम्बन्धव्यतिरेकेण सर्वप्रकाराणां दोषाणां कथञ्चन प्रायश्चित्तादिनापि निवृत्तिर्नैव भवति । एतदेवोक्तं षष्ठे । 'न तथा ह्यघवान् राजन् पूयते तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवये'त्यादिभिः । ननु स्वस्य निवेदनकरणानन्तरं स्वात्मना सह ये कलत्रपुत्रादयो निवेदिताः, तेषां पुनः पृथक् पृथक् निवेदनं करणीयं न वेत्याशङ्कायां समाधानं निवेदनान्तरं तस्य स्थिति- प्रकारं, प्रसङ्गात् प्राप्तं स्वरूपसेवाधिकरणं चेति त्रयमप्याहुः असमर्पितवस्तूनामिति । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न समर्पितं वस्तु यैस्ते असमर्पितवस्तवः तेषां वर्जनमाचरेत् । अत्रायामाशयः । यस्मात्स्वात्मना सह कलत्रादीनां निवेदने जातेपि 'सर्वेषां प्रभुसम्बन्धो न प्रत्येक'मिति वाक्यात्तेषामपि भगवत्सम्बन्धे पूर्वसिद्धेपि त एव निवेदिता जाताः, परं न तेषां सम्ब- न्धिवस्त्वाधिकम्, तत्त्वनिवेदितस्थितमिति तेऽसमर्पितवस्तवो जाताः । अतस्ते वर्जनीयाः । तादृशास्ते न स्थापनीयाः । किन्तु पृथक्पृथक् तेषां निवेदनं करणीयम्, यथा तेपि सम- र्पितवस्तवो भवन्तीत्यर्थः । यद्वा । यस्माद्भगवत्सम्बन्ध एव सति सर्वेषां सर्वदोषनिवृत्तिरतो ऽसमर्पितवस्तूनामनिवेदितात्मनामत एव सदोषाणां तेषां वर्जनं तत्सङ्गादिवर्जनमाचरेत् । तादृशां सङ्गादिकं न कुर्यात् । एतदेवोक्तं नवरत्ने । 'निवेदनं तु स्मर्त्तव्यं सर्वथा तादृशै- र्जनै'रिति । द्वितीयमर्थमाहुः असमर्पितेति । यस्मादुपायान्तरैर्न तन्निवृत्तिः, प्रत्युत स्वधर्म- हानिश्च, तस्मात् सर्वदोषनिवृत्त्यर्थं स्वधर्मसिद्धयर्थं भक्तैः परमकाष्ठापन्नदशाप्राप्त्यर्थं च भगवदसमर्पितवस्तुमात्रस्य स्वस्मिन् लौकिकवैदिकस्वकार्यमात्रे च विनियोगो न कार्यः, किन्तु समर्पितस्यैव वस्तुन इत्यर्थः । एतेन निवेदनानन्तरं तस्य भगवत्स्वरूपसेवापि कर्तव्यत्वेन सर्वथा प्राप्ता । अन्यथा प्रतिक्षणं तत्तद्वस्तुसमर्पणा सम्भवति । तृतीयः ।