षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 402, कुल 408 में से
संदर्भ में पढ़ें६२ सिद्धान्तरहस्यम् । भगवतापि 'दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदन'मित्यनेन निवेद्यत्वेन दारादयो निर्दिष्टाः । निवेदनस्य किं फलमित्याकाङ्क्षायां 'उद्धवात्मनिवेदिनां मयि संजायते भक्ति'- रित्युक्त्या भक्तिशब्दवाच्या सैवैव फलत्वेन निर्दिष्टा । भक्तिशब्दस्य सेवाऽर्थः । भजेसेवायां- मिति धातुपाठात् । 'भज इत्येष वै धातुः सेवायां परिकीर्तित' इति तन्त्राच्च । तथा च सिद्धमेतत् । दारादिसङ्ग्रहस्तन्निवेदनं च कृष्णसेवाऽर्थम् । कृष्णसेवा हि सर्वथैव कर्तव्या । 'तज्जन्म तानि कर्माणि तदायूस्तन्मनोवचः । नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वर' इति नारदवाक्यात् । 'करौ च तत्कर्मकरौ मनश्च शावौ करौ नो कुरुतः सपर्याम् । करौ हरेर्मन्दिर- मार्जनादि'ष्वित्यादिवचःपुञ्जाच्च । 'यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि न' इति पञ्चमस्कन्धे देववाक्ये सर्वदेवतास्पृहणीयत्वस्याभिधानाच्च । अतः सेवार्थं गृहाश्रम- स्तन्निर्वाहार्थं लौकिको ज्ञातिसम्बन्धिव्यवहारो ब्राह्मणभोजनादिरूपो यज्ञोपवीतविवाहादिक- र्मसु कर्माङ्गभूतदेवतापूजनादिव्यवहारश्च सर्वथा कर्तव्य एव । परम्परया कृष्णसेवोपयोगि- त्वात् । परन्तु स सर्वोऽपि भगवते समर्प्यैव भगवदुपभुक्तशिष्टेन कार्यः । एतद्बोधकं समर्प्यै- वेत्यत्रचैवेपदं एतदभिसंधाय 'सेवकानां यथा लोके' इत्यत्र सेवकपदं दत्तमाचार्यवर्यैः । अनेन सेवाभिलाषिणां गृहाश्रमः सर्वाश्रमेभ्यो बलीयानित्युक्तं भवति । यस्य तु गृहे भगवत्सेवायां अभावस्तद्विषयकानि गृहलाघववचनानि । अत एव 'हित्वात्मपातं गृहमन्धकूप'मित्यात्रात्मपात- त्वमन्धकूपत्वं च विशेषणद्वयमुक्तम् । न हि भगवदीयानां गृहमन्धकूपं भवति । वेदान्तरत्न- रूपस्याखिलपुरुषार्थदातुर्भगवतो विराजमत्वात् । अतः सर्वं सुस्थम् । गृहाश्रमाभिप्रायेणैव भगवन्तं प्रति विज्ञापयता उद्धवेन 'त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिता' इत्यत्र वसन- भूषणाद्यलङ्कृतत्वं श्रीकृष्णदासानामुक्तम् । अन्यथा त्यागपक्षे भूषणवसनाद्यलङ्कारो नोचित इति न वेदत् । अतो गृहाश्रमं सम्पाद्य भगवते सर्वं निवेद्य कृष्णोपभुक्तशिष्टेन देहादि- निर्वाहे न किञ्चिद्दूषणम् । 'अम्बरीष नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा विष्णूपभोग्यं तु सदा सेव्यं हि वैष्णवै'रित्यादिपुराणान्तरवचःसमुदायादिति दिक्। 'अम्बरीष नवं वस्त्र'मित्यत्र नवपदेन अन्यभुक्तस्य निवेदनं निषिद्धमिति ज्ञेयम् । एवं पूर्वोक्तप्रकारेण भगवन्तं भजमानस्य फलमाहुः सर्वेषां ब्रह्मता तत इति । आत्मना सह समर्पितानां देहादीनां दारागारपुत्रादीनां च ब्रह्मता भवति । निर्दोषत्वप्रकटसच्चिदानन्दत्वरूपाक्षरब्रह्मधर्मास्तेष्वाविर्भूता भवन्तीत्यर्थः । पूर्वमतथाभूतस्य भक्त्या ब्रह्मत्वप्राप्तौ दृष्टान्तमाहुः गङ्गात्वं सर्वदोषाणामित्यादिना । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ ३/२ ॥ सर्वे दोषा येषु तानि सर्वदोषाणि रथ्यादिजलानि । तेषां गङ्गाप्रवाहप्रवेशे यथा गङ्गा- त्वम्, तथा निवेदनेन ब्रह्मत्वं भवतीत्यर्थः । गङ्गाप्रवेशे रथ्यादिसलिलानां सर्वे दोषा निवर्तन्ते, ततो निर्दुष्टवारीणां गङ्गात्वम्, न तु दोषाणां गङ्गात्वम्, तेषां गङ्गासम्बन्धनाश्यत्वात् ।