षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 405, कुल 408 में से
संदर्भ में पढ़ेंश्रीशाचार्यमतानुवर्तिकृतटीकासमेतम् । ६५ शिष्टसम्प्रदायसिद्धपद्धतिके सन्मार्गीयनिवेदनप्रकारे दूषणलेशोपि नास्तीति निर्दुष्टः पन्था अस्मदाचार्याणामार्याणां च । गोवर्धनेशपदपङ्कजलब्धिहेतुः श्रीवल्लभैर्निगदितात्मनिवेदनाख्या ॥ श्रीविठ्ठलप्रकटिता हरिभक्तिरेषा चर्तुं वाञ्छितफलानयमलाश्रितानाम् ॥ १ ॥ इति श्रीमद्गोवर्धनधरश्रीवल्लभाचार्यवरश्रीविठ्ठलेश्वरचरणानुचरसेवकेन लालूभट्टोपनामविदितदीक्षितबालकृष्णेन विरचिता सिद्धान्त- रहस्यटीका सम्पूर्णा । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीशाचार्यमतानुवर्तिकृतसंवादविवृतिसमेतम् । श्रीवल्लभं नमस्कृत्य तन्मुखोक्तीर्विभाव्य च । क्रियते भक्तिसिद्धान्तरहस्यविवृतिर्मया ॥ १ ॥ अथ श्रीगोपीजनवल्लभः क्वचिच्छ्रावणस्यामले पक्षे एकादश्यां महानिशि प्रादुर्भूय भगवान् अनन्तशयनस्वरूपे१ समर्पितं सितोपलखण्डं स्ववदने निक्षिप्य तदर्पितपवित्रमालिकाः परिधाय प्रोवाच 'श्रीवल्लभ, भवत्प्राकट्यं ममैव स्वास्यात् कृतमस्ति, तेनात्मनिवेदनद्वारा जीवोद्धारणे विलम्बो न कार्य' इति । तदनु कीदृशं तदिति प्रश्ने, भगवान् सगद्यं 'तवा- स्मी'तिपूर्वकं स्वसिद्धान्तरहस्यं समुपदिष्टवान् । तथाहि । एकदा श्रीवल्लभाचार्या धृतव्रताः श्रीगोकुले श्रीयमुनातीरे समुपासीना भगवन्तं श्रीगोपीजनवल्लभं साक्षाद् दृष्टवन्तः । तत्र यदनुभवन्ति स्म, तदेव स्वयमावेदयन्ति श्रावणस्येत्यादिश्लोकैरष्टभिः सार्धैः । धर्मधर्म्य-२ भिप्रायेण दृष्टान्तेन च । प्रथमं प्रतिज्ञावाक्येनाहुः श्रावणस्येति । श्रावणस्यामले पक्ष एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ साक्षादाविर्भूतेन भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ ननु भगवन्, सर्वदोषनिधाने कलौ तथाविधदेहात्मनामेषां जीवानां कथं कस्मात् समुद्धार इति पृष्टो भगवानाह ब्रह्मसम्बन्धकरणादिति । १. शालिग्रामे । २. षड् गुणा धर्मीः, सप्तमो धर्मों, श्रीभगवदभिप्रायेण । सि० र० ९