षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 41, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २७ ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये । श्रीगोकुलनाथचरणानाम् विवृतिः । आवश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे मुक्त्यधिकभक्तिप्राप्तिर्यत्र, तत्र का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद- मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता श्रीहरिरायप्रणीतं टिप्पणम् । आवश्यक्येति । देहस्य देहान्तरारम्भकत्वमावश्यको दैहिको धर्मः “प्रज्ञया शरीरं समारुह्ये”१त्यादिश्रुतेः । किं बहुना । मुक्तावपि भगवच्छास्त्रे सेवोपयोगि वैकुण्ठादिषु देहान्तरम् । अत एवोक्तमाचार्यैः सेवाफलग्रन्थे—“सेवोपयोगिदेहो वैकुण्ठादिष्वि”ति । तस्मिन्नपि त्वत्सम्बन्धे सान्निध्यसम्पादिते दै२शिकेऽपि सम्ब- न्धे यत्र तथाविधभक्तिसिद्धिस्तत्र तत्र जातानां यमयातनाभावे का शङ्केति कैमुतिक- न्यायो निरूप्यत इत्यर्थः । तव सन्निधाविति । एतेन दुष्टसन्निधानकृतत्वच्चिरो- भावाभावस्थल एव तथात्वमित्याशयो ज्ञेय इति बोधितम् । पूर्वदेहनिवृत्तिरिति । घटस्य पाकेन३ मृत्त्वनिवृत्तिवन्निवृत्तिरत्र वाच्या । अन्यथा पूर्वतनोर्नवत्वमिति न व्याख्यातं स्यादिति भावः । श्रीपुरुषोत्तमप्रणीता विवृतिः । तत्र च, एवमनेन स्वरूपसामर्थ्यं निश्चाययित्वा प्रियत्वोपयोगि यदभिप्रेतं तत्रार्थयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यावश्यकेत्यादि, आवश्यक- दैहिकधर्मपदेन तीरवासात्मकं सेवनं पानं चेत्युभयमपि सङ्गृह्यते । पूर्वत्र सेवनपानयोः फलस्योपपादितत्वेऽपि व्याख्यानाभावादत्राऽनुवादः । तथाच तीरवासात्मकत्वत्सेवन- त्वज्जलपानरूपावश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे यत्र मुक्त्यधिकभक्तिप्राप्तिस्तत्र का आशङ्का यमयातनाभाव इत्याशयेन पूर्वं प्रार्थनमाहुरित्यर्थः । तद्व्याकुर्वन्ति तवेत्यादि । तवे आधिदैविक्याः सन्निधौ भौतिकीमध्ये सन्निधाने तनोर्नवत्वं सिद्धिरूपलीलोपयो- गिनूतनदेहसम्पत्तिरस्तु । अत्र तनुनवत्वं नैतच्छरीरेऽतिशयाधानमात्रपर्यवसायि, किन्तु, पूर्वशरीरनिवृत्तिपूर्वकाभीष्टदेहान्तरप्राप्तिपर्यन्तमित्याशयं स्फुटीकुर्वन्ति एतेने- त्यादि । एतेन नवत्वस्य नूतनदेहसम्पत्तिपर्यन्तत्वकथनेन पूर्वशरीरनिवृत्तिः सूचिता, १ शरीरमारुह्येति ख. २ दैहिकेऽपीति ग. युक्तन्तु यथानिवेशमिति न प्रस्मार्थ्यम् । ३ परिपाके नामरूप- निवृत्तिवद् इति पाठः अ.