षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 44, कुल 408 में से
संदर्भ में पढ़ें३० श्रीयमुनाष्टकम् । स्तुतिं तव करोति कः कमलजासपत्नि प्रिये यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति । श्रीहरिरायप्रणीतं टिप्पणम् । अत एव पुष्टिस्थितैरित्युक्तम्, अन्येषामेतन्माहात्म्यानवगतेः । पद्यपदलापनिका तु, पुष्टिस्थितैः निःसाधनानुग्रहमार्गनिष्ठैः सुरधुनी लोकान्तरनदी भुवि तु पुनर्न कदाऽपि कीर्त्तिता तादृक्पुष्टिमार्गीयफलसाधकत्वेनेति । परं किन्तु सर्वदैव तवैव सङ्गमात् सा तथा कीर्त्तिता। अतः सर्वदा तव लालना पूर्वोक्तरूपाऽस्त्विति सम्बन्धो ज्ञेयः ॥७॥ अशक्यस्तुतित्व इति। वाग्गोचरमाहात्म्यसत्त्वाद्यथा रसस्वरूपानन्देऽशक्य- स्तुतित्वम् । “यतो वाच” इति श्रुतेः । तथाऽत्राऽपीति भावः । कमलजासपत्नीति हेतुनिरूपणम् । सपत्नीत्वेन लक्ष्मीविरुद्धस्वभावत्वादित्यर्थः । अयमभिप्रायः । लक्ष्मीर्हि प्रमाणसिद्धब्रह्मानन्दस्वरूपा । अतः प्रमाणभूतैर्वेदादिवाक्यैर्लक्ष्मीमाहात्म्य- निरूपणमुपपद्येताऽपि । त्वं तु पुष्टिलीलास्थत्वेन तदतीताप्रमेयानन्दरूपेति 'यतो वाच' श्रीपुरुषोत्तमप्रणीता विवृतिः । सङ्गमात् । तत्र गमकं, पुष्टिस्थितैस्तु कदापि नेति । केवला न कीर्त्तितेत्यर्थ इति समीची भाति। तथाच सेवोपयोगिदेहसम्पादकत्वं गङ्गाया अस्ति, परं नाऽभीष्टसेवो- पयोगिदेहसम्पादकत्वम् । तेन नाऽन्यथा सिद्धिः । यदि तया सा स्यादभियुक्तैः साऽपि स्तूयेत । तदभावा'द्यया चरणपङ्कजे'त्यर्द्धेनोक्तोऽर्थ उपपन्नतर इति भावः । अत्राऽपि तनुभवत्वरूपं सप्तमैश्वर्यं स्पष्टमेव ॥ ७ ॥ नन्वस्तु गङ्गापेक्षया स्तुत्यत्वम् । सम्बन्धाधिक्यात्, न तु लक्ष्म्यपेक्षयाऽपि । तथा सति तनुभवत्वार्थं सैव स्तोतव्या । यत्पुनस्तया सदृशतामित्यर्द्धेनोक्तमतिप्रियत्वं तत्तु भक्तमानापनोदकेषु गुणातीतभक्तान्तरेष्वपि । कलिनिवारकत्वधर्मस्य साधारणत्वान्न तेनाऽनुमातुं शक्यमिति मानाभावान्नोपपन्नमित्याशङ्कायां, लक्ष्म्यपेक्षया जीवोप- कारकत्वं गङ्गायां सुप्रसिद्धमिति । तत आधिक्ये लक्ष्म्यपेक्षयोपकाराधिक्यं कैमुतिकादेव सिद्ध्यतीति न लक्ष्म्यास्तदर्थं स्तोतव्यत्वमित्याशयेनाऽष्टमश्लोकमव- तारयन्ति यत्रेत्यादि । उक्तार्थसूचनायाऽत्र सर्ववन्द्यपदम् । अतः परं कार्येणाऽतिप्रियत्व- साधकोऽग्रिमग्रन्थ उक्तेऽर्थे हेतुत्वमपि भजत इत्याशयेन तमवतारयन्त्यशक्यैत्यादि । १ सा पूर्वोक्तरूपेति ग-घ. २ रसरूपेति ख. ३ ब्रह्मानन्दरूपेति च.