भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 49, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 49

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ३५

तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥ श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।

बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि- पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा- कृत्य ता अङ्गीकृतवानेवमेतत्पाठनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती- त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति । स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा- वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनकेतपःसाध्यं कथमेतत्पाठमात्रा- दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् । नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वद्भवदुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा- ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः ।

श्रीहरिरायप्रणीतं टिप्पणम् ।

सन्तुष्यतीति । भगवत्प्रियात्वाद्यमुनायास्तत्स्तुतौ भगवत्तोषस्तत्रापि सम्यक्तोषो यथा गोपिकासु । अत एव "प्रियो भवति सेवनात्तव हरेरि"ति पूर्वमुक्तम् । चकारेण स्वामि- न्योऽपि तुष्यन्तीत्यर्थः । लोकेऽपि स्वस्तवनापेक्षया स्वप्रियस्तवनस्याऽतितोषहेतुत्वा- दिति भावः। फलान्तरमिति । प्रथममेकं फलं समस्तदुरितक्षयपूर्वकसकलसिद्धिसहित- भगवद्भावप्राप्तिरूपं निरूपितमित्यर्थः । स्वभावविजय इति । "काममयोऽयं पुरुष" इति श्रुतेः स्वभावस्य कामभावरूपजीवस्वभावस्य परावृत्तिः सर्वात्मभावसिद्ध्या भवतीत्यर्थः । यद्वा । स्वभावस्य सात्त्विकादिस्वभावस्य विजयः स्वाधीनीकरणं लीलामात्रोपयोगितया प्रवर्त्तनरूपं स्वरूपतो गुणातीतत्वसिद्ध्या भवतीत्यर्थः । अथवा । स्वभावस्य भगवद्धर्मप्रवेशजन्यमानादिस्वभावस्य दैन्यभावसिद्ध्या परावृत्ति- र्भवतीत्यर्थः । दुष्टस्वभाव इति । शुद्धपुष्टिमार्गविचारेण पूर्वोक्तरूपस्वभावस्य दुष्ट- त्वमित्यर्थः । आप्तवाक्यत्वेनेति । यथार्थार्थवादित्वेनाऽऽप्तत्वम् । तच्चाऽऽचार्यचरणे- ष्वेव सम्भवति । लीलास्सृष्टिसम्बन्धित्वेन लीलास्थभक्तजनफलजननदर्शनात् । अत एतदाप्तत्वमेतेष्वेवेत्येतद्विषये स्वोक्तमेव प्रमाणमिति बोधनाय स्वनामोक्तिरिति भावः । नन्वित्यादिना आप्तत्वसंशयमादाय पूर्वपक्षो ज्ञेयः । साक्षादित्यादिनिरूप- णस्याऽयमभिप्रायः । हरिपदेन निःसाधनगजराजोद्धृतये तद्देन्येन प्रादुर्भूतः पुरुषो- त्तम उच्यते । स च पुष्टिमार्गीयप्रभुरेव । सर्वसाधनराहित्ये केवलदैन्येन प्रादुर्भूत-

१ पूर्वकमिति क. ग. घ. ङ.