षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 58, कुल 408 में से
संदर्भ में पढ़ें४६ श्रीयमुनाष्टकम् । विशुद्धमथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ यया चरणपद्मजा मुररिपोः प्रियम्भावुका एव प्रभुप्राकट्यात्तथा । विशुद्धा मधुरा तटे यस्याः । सा निकटे वा यस्य । निरवधिकृपायुक्तो हरिस्तस्मिन् । अन्या नदी लौकिकं जलधिं सङ्गता भवति । इयं तु तादृशं श्रीव्रजेशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो भवतीतिभावः सूचितः ॥ ४ ॥ अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया । गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। मिलिता यास्ते सर्वेपि गुणा द्योतिताः। एतेन धर्मिरूपत्वमस्या निरूपितम् । प्रभुपक्षे चत्वारि तु स्फुटानि एव। विशुद्धा मथुरा तटे निकटे यस्य, तत्र निरन्तरं सान्निध्यात् । सकलेति स्फुटम् । कृपेति कृपा एव जलधिः, तेन संश्रितो मिलितः, अपारकृपा- युक्त इति भावः । यथा समुद्रगामिन्यां नद्यां पतितं तृणादिकं स्वत एव समुद्रे प्रप- तति, तथा अपारकरुणायुते कृष्णे मिलितायां यमुनायामाश्रिता अपि एतद्वेगेनैव तत्र गमिष्यन्तीति भावः । ममेति । प्रभुपक्षे सम्बोधनान्तं श्रीयमुने इत्यध्याहृत्य योज- नीयम् । एतादृग्धर्मवति हरौ मम मनः सुखं यथा स्यात्तथोपायं कुरु। श्रीयमुनापक्षे भो एतादृग्धर्मवति ! मम मनसि यत्सुखं तत्त्वं भावय स्वमनस्यानय । त्वया मन- स्यानीते मम सुखानुभवो भविष्यति नत्वन्यथा । भगवताष्टविधैश्वर्यस्य त्वयि स्थापितत्वात् । अस्मिन् पद्ये भगवत्समानधर्मवत्वेपि अनायासेन भगवत्सम्बन्धस- म्पादकत्वं चतुर्थमैश्वर्यं प्रदर्शितम् । अन्वयस्तु पक्षद्वयेप्युक्त एव ॥ ४ ॥ अथेत्यर्थान्तरारम्भे । चतुर्भिः पदैरुत्कर्षवर्णनद्वारा संस्तुत्य चतुर्भिरुत्कर्षवर्ण- नस्याशक्यत्वं निरूपयन्तः संस्तुवन्ति यथेति । भगवदीयानामिति बहुवचनेन लक्ष्मीगङ्गासरस्वतीतुलस्यो ज्ञेयाः । तत्र लक्ष्मीः पद्मजा, गङ्गाचरणपद्मजा, तथा तुलस्यपि, सरस्वती मुखपद्मजा । भगवदीयाः सर्वत उत्कृष्टाः, महाराजसेवकवत्, तेष्वप्युत्कर्ष एतयाऽऽधीयते, 'स्वलक्षणा प्रादुरभूत्कि- लाक्षतः इति वाक्यतः सर्वांसामुत्कर्षः श्रीयमुनाकृतः। अत एतदुत्कर्षवर्णनस्याशक्यत्वं