षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 62, कुल 408 में से
संदर्भ में पढ़ें५० श्रीयमुनाष्टकम् । न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये । का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद- मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । दनकर्त्र्याः स्तुतेरप्यत्यद्भुततमत्वेनाशक्यत्वं निरूप्याऽऽवरणानाच्छन्नभगवत्सेवोपयो- गिदेहसम्पादनकर्त्र्याः स्तुतेरशक्यत्व निरूपयन्तोऽग्रिममवतारयन्ति आवश्यक इति । अतःपरं प्रभुचरणाज्ञाज्ञानां श्रीगोकुलनाथानां लेखः । अवश्यं भव आवश्यकः, स चासौ देहे भवश्च, स चासौ धर्मश्च तथा 'देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुरि'तिदशमस्कन्धीयप्रथमाध्यायोक्तरीतिकस्तस्मिन्नपि सुरतश्रमजलजया त्वया सम्बन्धे सति 'मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगमि'त्युक्तरीतिकभक्तिलाभो यत्र, तत्रत्यानां तथाभवने कः सन्देह इति कैमुतिकन्यायेन तया यथा कथञ्चिद्देशी- केपि सम्बन्धेपि श्रीकृष्णे रतिः सुलभेति सूचितम् । अत एव नित्यलीलास्थाना- वृतवस्तुदर्शनाद्यर्थं प्रार्थ्यते तवेति । पूर्वोक्तधर्मवत्यास्तव सन्निधौ सेवासमये पश्यन्ति, 'ते मे रुचिरावतंसप्रसन्नवक्त्रारुणलोचनानि रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ती'तितृतीयस्कन्धोक्तप्रकारकनित्यलीलास्थानां समीपे योगः संयोगसम्बन्धो विद्यते यस्य यस्मिन्नैतादृशो नूतनतनोर्लाभोऽस्तु । ननु तनोर्नवत्वे प्रार्थिते एतद्देहावसाने यथाऽन्यसेवया फलं भवति तथैवात्रेति श्रीयमु- नायाः सेवायां को वा विशेष इत्याशङ्क्य प्रकारभेदं वक्तुं तत्समाधानमाहुः एते- नेति । तनोर्नवत्वप्रार्थनेन पूर्वशरीरस्य लीलानुपयोगिदेहस्य निवृत्तिर्नितरां वर्त्तनम् । सत्ता सूचिता न तु नाशः । अन्यथा नवतनुवत्त्वं प्रार्थितं स्यात् । वक्ष्यमाणं एता- वता शरीरपरिवर्तनमात्रेणे'ति व्याख्यानं चानुपपन्नं स्यात् । तेन यथा घट- स्यामदशायां जलादिधारणसामर्थ्यं न । पुनः पाकद्शायां सर्वधारणसामर्थ्यं मृत्त्व- निवृत्तिश्च । तथैवात्र लीलास्थजीवानां पुष्टिमार्गे स्थितानां श्रीयमुनासम्बन्धादर्वाक् आमघटवद्भगवल्लीलादर्शनादि सामर्थ्यं नास्ति । श्रीयमुनासम्बन्धे तु कृपया तनु- नवत्वे जाते पक्वघटवल्लीलादर्शनानुभवादिविषयकं सामर्थ्यमुत्पद्यते । शरीरे लौकि- कत्वनिवृत्तिश्चेति दिक् । मूलस्थास्यास्त्विति पदस्य तात्पर्यमाहुरिदमिति । हीन- मध्यमानामपि उत्तमाधिकार्युपयुक्तालौकिकसामर्थ्यरूपफलसम्पादनकर्त्र्यास्तव कृपैव दुर्लभा, तस्यां तु सत्यां न किमपि दुर्लभतममिति वदन्नाहुरेतावतेति । ननु कदा- चित्प्रारब्धदोषवशाद्भगवदीयानामपराधे जाते तज्जनिते भगवत्कृते प्रतिबन्धे चोद्भूते