षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 73, कुल 408 में से
संदर्भ में पढ़ेंगो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ६१ श्रीमदाचार्यकृपया भर्तुः श्रीगिरिधारिणः । श्रीमद्विठ्ठलनाथस्य कृतिर्हि विवृता मया ॥ १ ॥ अत्र किञ्चिदयुक्तं यन्मयोक्तं स्वल्पबुद्धिना । क्षम्यन्तु तन्निजाचार्याः किङ्करे निजवंशजे ॥ २ ॥ युग्मम् ॥ स्वान्तःकरणनिष्ठेन श्रीमदाचार्यरूपिणा । श्रीमद्विठ्ठलनाथेन श्रीगोवर्द्धनधारिणा ॥ ३ ॥ प्रेरितेन कृतेयं श्रीमथुरानाथसूनुना । प्रीत्यै भूयाद्भगवतोः कालिन्दीकृष्णदेवयोः ॥ ४ ॥ इति श्रीमद्गोपीजनसुखपतेः पादयुगले, मनो धृत्वा दीनं किसलयदलाभे विरचिता । सदा श्रीकृष्णस्यात्मजचरणदेशे प्रपतिता निजा भक्ता एनाममुदिनमुदारां विदधतु ॥ ५ ॥ कालिन्दीकृष्णयोः प्रीत्यै सुगमान्वयबोधिनी । कृता तेन प्रसीदन्तु श्रीमदाचार्यनन्दनाः ॥ ६ ॥ श्रीमद्गोवर्द्धनधरसेवायां प्रतिबन्धकाः । ये ते सर्वे प्रणश्यन्तु ममेति प्रार्थनं प्रभो ॥ ७ ॥ इति श्रीमथुरानाथात्मजश्रीद्वारकेशचरणविरचिता सुगमान्वयबोधिनी श्रीयमुनाष्टकविवृतिटीका सम्पूर्णा । श्रीविठ्ठलेश्वरप्रभुचरणविरचितायाः श्री य मु ना ष्ट क वि वृ तेः वि व र ण त्र यं समाप्तम् ।