भारतकोश
श्रीमद्भागवत महापुराण

श्रीमद्भागवत महापुराण

Shrimad Bhagavata Mahapurana

महर्षि वेदव्यास द्वारा

DevanagariHindipublished1,617 पृष्ठ

पृष्ठ 1126, कुल 1617 में से

संदर्भ में पढ़ें
पृष्ठ 1126

अथ तृतीयोऽध्यायः

यम और यमदूतोंका संवाद

राजोवाच

निशम्य देवः स्वभटोपवर्णितं
  प्रत्याह किं तान् प्रति धर्मराजः ।
एवं हताज्ञो विहतान्मुरारे-
  र्नैदेशिकैर्यस्य वशे जनोऽयम् ।।१

यमस्य देवस्य न दण्डभङ्गः
  कुतश्चनर्षे श्रुतपूर्व आसीत् ।
एतन्मुने वृंश्चति लोकसंशयं
  न हि त्वदन्य इति मे विनिश्चितम् ।।२

श्रीशुक उवाच

भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ।।३

यमदूता ऊचुः

कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।
त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ।।४

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।
कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ।।५

किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् ।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ।।६

अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः ।
शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ।।७