श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 1287, कुल 1617 में से
संदर्भ में पढ़ेंयम उवाच
अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः । यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् ।।३७
अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ।।३८
य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरीशितु- श्चराचरं निग्रहसङ्ग्रहे प्रभुः ।।३९
पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ।।४०
भूतानि तैस्तैर्निजयोनिकर्मभि- र्भवन्ति काले न भवन्ति सर्वशः । न तत्र ह्यात्मा प्रकृतावपि स्थित- स्तस्या गुणैरन्यतमो निबध्यते ।।४१
इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम् । यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ।।४२
यमराज बोले—बड़े आश्चर्यकी बात है! ये लोग तो मुझसे सयाने हैं। बराबर लोगोंका मरना-जीना देखते हैं, फिर भी इतने मूढ़ हो रहे हैं। अरे! यह मनुष्य जहाँसे आया था, वहीं चला गया। इन लोगोंको भी एक-न-एक दिन वहीं जाना है। फिर झूठमूठ ये लोग इतना शोक
ebook converter DEMO Watermarks*