श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 1349, कुल 1617 में से
संदर्भ में पढ़ेंमनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥४८
प्रजापतय ऊचुः प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ॥४९
गन्धर्वा ऊचुः वयं विभो ते नटनाट्यगायका येनात्मसाद् वीर्यबलौजसा कृताः । स एष१ नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥५०
चारणा ऊचुः हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः । यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥५१
यक्षा ऊचुः वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञै- स्त२ इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंश ॥५२
किम्पुरुषा ऊचुः वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।
ebook converter DEMO Watermarks*