श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 136, कुल 1617 में से
संदर्भ में पढ़ेंहोगी ॥७५-७६॥ और गोकर्णजी! आपको तो भगवान् स्वयं आकर गोलोकधाममें ले जायेंगे। यों कहकर वे सब पार्षद हरिकीर्तन करते वैकुण्ठलोकको चले गये ॥७७॥ सप्तरात्रमुपोष्यैव प्रेतेन श्रवणं कृतम् । मननादि तथा तेन स्थिरचित्ते कृतं भृशम् ॥७२ अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् । संदिग्धो हि हतो मन्त्रो व्यग्रचित्तो हतो जपः ॥७३ अवैष्णवो हतो देशो हतं श्राद्धमपात्रकम् । हतमश्रोत्रिये दानमनाचारं हतं कुलम् ॥७४ विश्वासो गुरुवाक्येषु स्वस्मिन्दीनत्वभावना । मनोदोषजयश्चैव कथायां निश्चला मतिः ॥७५ एवमादि कृतं चेत्स्यात्तदा वै श्रवणे फलम् । पुनः श्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम् ॥७६ गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयं । एवमुक्त्वा ययुः सर्वे वैकुण्ठं हरिकीर्तनाः ॥७७ श्रावणे मासि गोकर्णः कथामूचे तथा पुनः । सप्तरात्रवतीं भूयः श्रवणं तैः कृतं पुनः ॥७८ कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद ॥७९ विमानैः सह भक्तैश्च हरिराविर्बभूव ह । जयशब्दा नमःशब्दास्तत्रासन् बहवस्तदा ॥८० पाञ्चजन्यध्वनिं चक्रे हर्षात्तत्र स्वयं हरिः । गोकर्णं तु समालिङ्ग्याकरोत्स्वसदृशं हरिः ॥८१ श्रोतॄनन्यान ् घनश्यामान् पीतकौशेयवाससः । किरीटिनः कुण्डलिनस्तथा चक्रे हरिः क्षणात् ॥८२ तद्ग्रामे ये स्थिता जीवा आश्वचाण्डालजातयः । विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा ॥८३ प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः । गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् । कथाश्रवणतः प्रीतो निर्ययौ भक्तवत्सलः ॥८४
श्रावण मासमें गोकर्णजीने फिर उसी प्रकार सप्ताहक्रमसे कथा कही और उन श्रोताओंने उसे फिर सुना ॥७८॥ नारदजी! इस कथाकी समाप्तिपर जो कुछ हुआ, वह