भारतकोश
श्रीमद्भागवत महापुराण

श्रीमद्भागवत महापुराण

Shrimad Bhagavata Mahapurana

महर्षि वेदव्यास द्वारा

DevanagariHindipublished1,617 पृष्ठ

पृष्ठ 1536, कुल 1617 में से

संदर्भ में पढ़ें
पृष्ठ 1536

अथ पञ्चदशोऽध्यायः

राजा बलिकी स्वर्गपर विजय

राजोवाच

बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत ।
भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् ।।१
एतद् वेदितुमिच्छामो महत् कौतूहलं हि नः ।
यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः ।।२

श्रीशुक उवाच

पराजितश्रीरसुभिश्च हापितो
  हीन्द्रेण राजन्भृगुभिः स जीवितः ।
सर्वात्मना तानभजद् भृगून्बलिः
  शिष्यो महात्माथर्निवेदनेन ।।३

तं ब्राह्मणा भृगवः प्रीयमाणा
  अयाजयन्विश्वजिता त्रिणाकम् ।
जिगीषमाणं विधिनाभिषिच्य
  महाभिषेकेण महानुभावाः ।।४

ततो रथः काञ्चनपट्टनद्धो
  हयाश्च हर्यश्वतुरङ्गवर्णाः ।
ध्वजश्च सिंहेन विराजमानो
  हुताशनादास हविर्भिरिष्टात् ।।५

धनुश्च दिव्यं पुरटोपनद्धं
  तूणावरिक्तौ कवचं च दिव्यम् ।
पितामहस्तस्य ददौ च माला-
  म्म्लानपुष्पां जलजं च शुक्रः ।।६

एवं स विप्रार्जितयोधनार्थ-
  स्तैः कल्पितस्वस्त्ययनोऽथ विप्रान् ।
प्रदक्षिणीकृत्य कृतप्रणामः
  प्रह्लादमामन्त्र्य नमश्चकार ।।७