श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 1554, कुल 1617 में से
संदर्भ में पढ़ेंअथ सप्तदशोऽध्यायः भगवान्का प्रकट होकर अदितिको वर देना
श्रीशुक उवाच
इत्युक्ता सादिती राजन्स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद् व्रतमिदं द्वादशाहमतन्द्रिता ।।१ चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् । प्रगृह्येन्द्रियदुष्टाश्वान्म मनसा बुद्धिसारथिः ।।२ मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि । वासुदेवे समाधाय चचार ह पयोव्रतम् ।।३ तस्याः प्रादुरभूत्तात भगवानादिपूरुषः । पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ।।४ तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् । ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ।।५
सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा । बभूव तूष्णीं पुलकाकुलाकृति- स्तद्दर्शनात्युत्सवगात्रवेपथुः ।।६ प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्यदितिः कुरूद्वह । उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ।।७
अदितिरुवाच
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवणमङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन्नसि दीननाथः ।।८