श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 263, कुल 1617 में से
संदर्भ में पढ़ेंपश्योत्पातान्नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान्१ शंसतोऽदूराद्भयं नो२ बुद्धिमोहनम् ॥१०
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः । वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥११
शिवैषोद्यन्तमादित्यमभिरौत्यनलानना३ । मामङ्ग४ सारमेयोऽयमभिरेभत्यभीरुवत्५ ॥१२
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥१३
मृत्युदूतः कपोतोऽयमुलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैर्निद्रौ६ शून्यमिच्छतः ॥१४
धूम्रा दिशः७ परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च८ महांस्तात साकं च स्तनयित्नुभिः ॥१५
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्समिव सर्वतः ॥१६
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥१७
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥१८
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥१९
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥२०