श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 28, कुल 1617 में से
संदर्भ में पढ़ेंपूजन-मन्त्र
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतस्पृत्वात्यतिष्ठद्दशाङ्गुलम् ।।१।।
श्रीभगवन्नामस्वरूपिणे भागवताय नमः । आवाहयामि ।
—इस मन्त्रसे भगवान्के नामस्वरूप भागवतको नमस्कार करके आवाहन करे ।
ॐ पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।२।।
श्रीभगवन्नामस्वरूपिणे भागवताय नमः । आसनं समर्पयामि ।
—इस मन्त्रसे आसन समर्पित करे ।
ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।३।।
श्रीभगवन्नामस्वरूपिणे भागवताय नमः । पाद्यं समर्पयामि ।
—इस मन्त्रसे पैर पखारनेके लिये गंगाजल समर्पित करे ।
ॐ त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत् साशनानशने अभि ।।४।।
श्रीभगवन्नामस्वरूपिणे भागवताय नमः । अर्घ्यं समर्पयामि ।
—इस मन्त्रसे अर्घ्य (गन्ध-पुष्पादिसहित गंगाजल) निवेदित करे ।
ॐ ततो विराज्डायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ।।५।।
श्रीभगवन्नामस्वरूपिणे भागवताय नमः । आचमनं समर्पयामि ।
—इस मन्त्रसे आचमनके लिये गंगाजल अर्पित करे ।
ॐ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।
पशून् ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ।।६।।
श्रीभगवन्नामस्वरूपिणे भागवताय नमः । स्नानं समर्पयामि ।
—इस मन्त्रसे स्नानके लिये गंगाजल अथवा शुद्ध जल अर्पित करे ।
ॐ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस्तमादजायत ।।७।।
श्रीभगवन्नामस्वरूपिणे भागवताय नमः । वस्त्रं समर्पयामि ।