भारतकोश
श्रीमद्भागवत महापुराण

श्रीमद्भागवत महापुराण

Shrimad Bhagavata Mahapurana

महर्षि वेदव्यास द्वारा

DevanagariHindipublished1,617 पृष्ठ

पृष्ठ 316, कुल 1617 में से

संदर्भ में पढ़ें
पृष्ठ 316

।। ॐ तत्सत् ।।
।। श्रीगणेशायः नमः ।।

श्रीमद्भागवतमहापुराणम्

द्वितीयः स्कन्धः

अथ प्रथमोऽध्यायः

ध्यान-विधि और भगवान्‌के विराट्स्वरूपका वर्णन

ॐ नमो भगवते वासुदेवाय

श्रीशुक उवाच

वरीयानेष ते प्रश्नः कृतो लोकहितं¹ नृप ।
आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ।।१

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।
अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ।।२

निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ।।३

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि² ।
तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ।।४

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छाताभयम्³ ।।५

एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ।।६

******ebook converter DEMO Watermarks*******

श्रीमद्भागवत महापुराण · पृष्ठ 316, कुल 1617 में से · BharatKosha