श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 715, कुल 1617 में से
संदर्भ में पढ़ेंअथ सप्तमोऽध्यायः
दक्षयज्ञकी पूर्ति
मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता ।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥१
श्रीमहादेव उवाच
नाघं प्रजेश¹ बालानां वर्णये नानुचिन्तये ।
देवमायाभिभूतानां दण्डस्तत्र² धृतो मया ॥२
प्रजापतेर्दग्धशीर्षो भवत्वजमुखं शिरः ।
मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥३
पूषा तु यजमानस्य दद्भिर्जक्षतु³ पिष्टभुक् ।
देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः ॥४
बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः ।
भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥५
मैत्रेय उवाच
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।
परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥६
ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।
भूयस्तद्देवयजनं समीढ्वद्ग्रेधसो ययुः ॥७
विधाय कात्स्न्र्येन च तद्यदाह भगवान् भवः ।
संदधुः कस्य कायेन सवनीयपशोः शिरः ॥८
संधीयमाने शिरसि⁴ दक्षो रुद्राभिवीक्षितः ।
सद्यः सुप्त इवोत्त्तस्थौ ददृशे चाग्रतो मृडम् ॥९
तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः ।
शिवावलोकादभवच्छरद्ध्रद इवामलः ॥१०