भारतकोश
श्रीमद्भागवत महापुराण

श्रीमद्भागवत महापुराण

Shrimad Bhagavata Mahapurana

महर्षि वेदव्यास द्वारा

DevanagariHindipublished1,617 पृष्ठ

पृष्ठ 904, कुल 1617 में से

संदर्भ में पढ़ें
पृष्ठ 904

अथैकोनत्रिंशोऽध्यायः पुरंजनोपाख्यानका तात्पर्य

प्राचीनबर्हिरुवाच

भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते । कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ।।१

नारद उवाच

पुरुषं पुरंजनं विद्याद्यद् व्यक्त्यात्मनः पुरम् । एकद्वित्रिचतुष्पादं बहुपादमपादकम् ।।२

योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः । यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ।।३

यदा जिघृक्षन् पुरुषः कात्स्न्येन प्रकृतेर्गुणान् । नवद्वारं द्विहस्ताङ्घ्रिं तत्रामनुत साध्विति ।।४

बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् । यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ।।५

सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् । सख्यस्तद्वृत्तयः प्राणः पंचवृत्तिर्यथोरगः ।।६

बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् । पंचालाः पंच विषया यन्मध्ये नवखं पुरम् ।।७

अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति । द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुतः ।।८

राजा प्राचीनबर्हिने कहा—भगवन्! मेरी समझमें आपके वचनोंका अभिप्राय पूरा-पूरा नहीं आ रहा है। विवेकी पुरुष ही इनका तात्पर्य समझ सकते हैं, हम कर्ममोहित जीव नहीं ।।१।।

ebook converter DEMO Watermarks*