सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 103, कुल 723 में से
संदर्भ में पढ़ें॥ श्रीः ॥ ॐ तत्सद्ब्रह्मणे नमः । श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणौ गोलाध्यायः वासनाभाष्यमरीचिसंस्कृतटीकासमलङ्कृतः तथा च केदारदत्ताख्यहिन्दीव्याख्योपपत्तिसहितः गोलाध्याये निजे या या अपूर्वा विषमोक्तयः । तास्ता बालावबोधाय संक्षेपाद्विवृणोम्यहम् ॥ वासनाभाष्यम्—गोलग्रन्थो हि सविस्तरतया प्राञ्जलः । किन्त्वत्र या या अपूर्वा नान्यैरुक्ता उक्तयो विषमास्तास्ताः संक्षेपाद्विवृणोमि । अत्र या या इति प्रथमान्तं पदं तास्ता इति द्वितीयान्तं पदं बुद्धिमता व्याख्येयम् । केदारदत्तः—सिद्धान्त शिरोमणि ग्रन्थ के ग्रहगणिताध्याय में जिन कठिन विषयों में स्पष्ट रूप के बावजूद जो अन्य विशेष परिष्कार हो सकते हैं उन विषयों की विशेष कठिन उक्तियों का संक्षेप से यहाँ बालबोधाय विवरण किया जा रहा है । यहाँ पर बाल शब्द से अवस्था का बालक न समझ कर अनधीत गणित गोलशास्त्र वञ्चित बुद्धि के युवा या वृद्ध पुरुष के लिये बाल शब्द का प्रयोग हुआ है । तत्राऽऽदौ तावदभीष्टदेवतानमस्कारपूर्वकं गोलं ब्रवीमीत्याह— सिद्धिं साध्यमुपैति यत्स्मरणातः क्षिप्रं प्रसादात्तथा यस्याश्चित्रपदा स्वलंकृतिरलं लालित्यलोलावती । नृत्यन्ती मुखरङ्गगेव कृतिनां स्याद्भारती भारती तं तां च प्रणिपत्य गोलममलं बालावबोधं ब्रुवे ॥१॥ वा० भा०—ब्रुवे वच्मि । कः । कर्ताऽहं भास्करः । किम् । गोलं गोलाध्या- यम् । किविशिष्टम् । अमलं निर्दूषणम् । पुनः किंभूतम् । बालावबोधम् । अविष- ममित्यर्थः । किं कृत्वा । प्रणिपत्य । प्रणिपातपूर्वकं नमस्कृत्य । कम् । तम् । न केवलं तम् । तां च । स कः । सा च का । तदाह । यस्य देवस्य स्मरणात् पुंसां साध्यमभीष्टं क्षिप्रं शीघ्रं सिध्यति सोऽर्थाद्विघ्नराजः । तथा यस्या देव्याः प्रसा-