सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 164, कुल 723 में से
संदर्भ में पढ़ें६२ गोलाध्याये रत्नाद्यैः प्राकारो दलतोरणैः । वसन्ति तत्र सिद्धाश्च महात्मानो गतव्यथाः । लङ्का भूम- मध्यवलये प्राच्यां बाणेऽङ्गभास्करैः । ततो जन(मनुज)संघैश्च यमकोटिः स्थिता द्विजेति । जम्बुद्वीपभुवोऽर्धे यदुदक्स्थं लवणार्णवात् । अर्धेऽन्यस्मिन्याम्यभागे द्वीपाः स्युः शाकपूर्वका इति चोक्तम् । अत एव । क्षाराम्भोधिर्दक्षिणे व्यक्षगानां जम्बुद्वीपं तस्य सौम्ये महीय इति लल्लेन स्पष्टमुक्तमित्यलम् ॥२१॥ अथ द्वीपसमुद्राणां विशेषतोऽवस्थानज्ञानार्थं क्रमेण क्षारादिसमुद्रान्विवक्षुः प्रथमं समुद्र- द्वयं मालिन्याऽऽह—लवणेति । आदौ भूगोले समुद्रावस्थानोपक्रमे प्रथमं लवणसमुद्रः । तस्मात्तदनन्तरं दुग्धसमुद्रः । चकारस्तदन्तराले देशावस्थानसूचकः । अन्यथा तद्वैक्यापत्तेः । तत्सद्भावे प्रमाणमाह— अमृतमिति । यस्मात्समुद्रामृतं देवानां भक्ष्यत्वेन प्रसिद्धम् । अमृतरश्मिश्चन्द्रः । श्रीर्लक्ष्मीः । चकारादैरावतोच्चैःश्रवादिकं बभूव । तथा च पुराणे । मन्दराचलेन देवैः क्षीरसमुद्रमथनादनेकपदार्था निष्काशिता इति प्रसिद्धत्वात्तन्मध्ये चन्द्रस्य प्रत्यक्षत्वेन तदुत्पादकत्वेन क्षीरसमुद्रसद्भावोऽनुमानगम्य इति भावः । प्रमाणान्तरेण तत्सद्भावमाह— महितेति । यत्र यस्मिन्समुद्रे । च परम् । वासुदेवः परब्रह्मस्वरूपो वसति । तथा च तत्समुद्रस्य परमेश्वरवसतिस्त्वेन पुराणे प्रसिद्धत्वात्तत्सद्भावे आगम एव प्रमाणम् । पुराणा- दीनां वेदमूलकत्वादिति भावः । ननु वसुदेवस्य मनुष्यत्वेन तत्तनुजस्यापि तत्त्वेन तदाश्रय- त्वेन समुद्रस्य को वा महिमा । येन तत्सद्भावे संशयो न स्यादित्यतः परमेश्वरत्वं तस्य विशेषणेन संस्थापयति—सकलवास इति । सकले स्थावरजङ्गमात्मके जगति वासो वसतिस्थानं यस्य । अयमेव व्यापकत्वात्परमेश्वर इति भावः । ननु तथाऽपि परमेश्वरस्य तथात्वेऽयं वसुदेवपुत्रः परमेश्वर एवेति कथमवगतमित्यत आह—महितेति । पद्मजन्मादि- देवैः पद्माद्विष्णुनाभिकमलाज्जन्मोत्पत्तिर्यस्येति ब्रह्मा तदादयो देवास्तैर्ब्रह्मेन्द्राद्यनेकदेवैर्महितं पूजितं चरणपद्मं यस्य स इत्यर्थः । तथा च परब्रह्मस्वरूपपरमेश्वरध्यानेकनिष्ठा देवा अपि