सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 173, कुल 723 में से
संदर्भ में पढ़ेंभुवनकोशः ७१ परस्परमितरभेदज्ञापकध्वजवृक्षानाह—तेष्विति । आधारपर्वतेषु केतुवृक्षा ध्वजवृक्षाः क्रमात् मन्दराद्युक्तक्रमात् । कदम्बजम्बूवटपिप्पलाख्याः सन्ति । चकारादाम्रादयोऽप्यन्ये सन्ती- त्यर्थः । तथा च व्याससिद्धान्ते—विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । कद- म्बस्तेषु जम्बूश्च वटःपिप्पल एव च । एकादशशतायामाः पादपा गिरिकेतव इति ।। ३२।। स्यादेतत् । परमिलावृतं स्वर्णभूमिकं कुत इत्यतस्तदुत्तरं वसन्ततिलकयाऽऽह— जम्बूफलेति— जम्बूवृक्षस्य महतो यानि महान्ति फलानि सुपक्वानि तेभ्योऽमलः स्वच्छो यो गलत्प्र- च्यवद्रसस्तस्मादेकीभावापन्ना जम्बू नदी । प्रवृत्ताऽभूदित्यर्थः । मृत् । इलावृतवर्षभूमिसं- बन्धिनी मृत्तिका । रसयुता । नदीरसयुता । सुवर्णमभूत् । नन्विदं कुतोऽवगतमित्यत आह— जाम्बूनदमिति । हि यस्मात्कारणात् । तत्सुवर्णम् । जाम्बूनदमभिधानग्रन्थे प्रसिद्धम् । तथा च जम्बूनदीसंबन्धि जाम्बूनदमिति व्युत्पत्त्या जम्बूफलानां महाप्रमाणानां सर्वत्रेतस्ततस्तत्रैव पतनसंभवात्तन्नामकसंभूतनद्यास्तदभितः सत्त्वात्तद्रससंबन्धेनेलावृतभूमिः स्वर्णमयीति रुचिर- काञ्चनचित्रमहीतलमिति प्रागुक्तं युक्तमत एवास्य वृक्षस्येतरेभ्योऽतिशयितत्वादेतन्नामक- मेतद्वीपमिति भावः । अत एव देवास्तद्रसपानं कुर्वन्तीत्याह—अत इति । तद्रससंयोगा- न्मृत्तिकापरिणामस्य स्वर्णत्वेन ज्ञानादित्यर्थः । सुरासिद्धसंघाः । शश्वन्नित्यम् । तं जम्बू- फलामलरसं पिबन्ति । ननु तेषाममृतमेवोत्तमं षष्ठद्य[पथ्य]मिति कथमेनं पिबन्तीत्यत आह—अमृतपानपराङ्मुखा इति । एतद्रसपानेनास्माकं शरीरं सुवर्णमेव भवतीति मत्वा संजातप्रतीतिका अमृतादप्यधिकमेनमास्वादेन गणयन्तोऽमृतपाने विगतस्पृहा भवन्तीत्यर्थः । तथा च व्याससिद्धान्ते—जम्बूद्वीपस्य सा जम्बूनामहेतुर्महामुने । महागजप्रमाणानि जम्ब्वा- स्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वशः । रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै । सरित्प्रवर्तते साऽपि पीयते तत्र वासिभिः । न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानस्वस्थमनसां भूतानां तत्र जायते । तीरमृत्तद्रसं प्राप्य सूखवायु- विशो(षो)षिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणमिति ।।३३।। अथ वृक्षाणां वनान्तर्गतत्वेन वनान्युपजातिकयाऽऽह--वनमिति । तेष्वाधारपर्वतेषु । इति पुराणोक्त्या प्रसिद्धं सर्वावगतं वनम् । उद्यानम् । तथा । उक्तवृक्षाश्रयीभूतम् । क्रमेणास्ति । तत्र मन्दरपर्वते चैत्ररथं नामाऽऽश्चर्यकारकम् । दक्षिण- भागस्थगन्धमादनाख्याधारपर्वते । अप्सरोनन्दनन्दनम् । अप्सरसां देवाङ्गनानां रहः क्रीडा- विहारावलोकनादिना नन्दयतीत्यप्सरोनन्दनं तच्च नन्दनं च । तदाख्यमुद्यानमित्यर्थः । चकारादन्यान्यपि विविधानि वनानि सन्तीत्यर्थः । विपुलपर्वते धृतिसंज्ञं वनम् । ननु देवो- द्यानानि भवन्ति चत्वारि । नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमितीति भागवतोक्त्यैतद- धिष्ठितं वनं सर्वतोभद्रमिति कथं धृतिसंज्ञकमुक्तमत आह—यदि । यदि नन्दनं सर्वतो-