सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 220, कुल 723 में से
संदर्भ में पढ़ें११८ गोलाध्याये रागणस्य च प्रत्येकतारकास्वन्योन्यं व्यवधानतारतम्याभावेऽपि लघुत्वपृथुत्वोपलम्भेन तल्लोकनिवासिनामपि समशरीरत्वमशक्यनिर्वचमेवेति । अन्ये तु विवादास्पदमर्कमण्डल- मुपष्टम्भकशून्यमभिभूतगुणानधिकरणत्वादीपवत् । यन्नैवं तन्नैवं यथा सुवर्णमिति व्याप्ते- र्व्यतिरेकीयत्वम् । अभिभूतरूपस्पर्शाद्यधिकरणत्वादिति हेतुः । आदिपदग्राह्यं चन्द्रवत्त्वं करकादौ व्यभिचारवारकम् । अन्यथा तत्रानभिभूतरूपस्पर्शयोः सत्त्वेनोपष्टम्भकशून्य- त्वाभावेन व्यभिचारापत्तिरिति । तन्न । हेतोरसिद्धेः । आदिपदाग्राह्यद्रवत्वघटितस्य हेतो- र्दृष्टान्तदीपेऽभावाच्च । न प्रकृतहेतोः करकायामभावेन व्यभिचारः । तत्र द्रवत्वस्य शीत- प्रतिबन्धकत्वेऽप्यनभिभवादिति वाच्यम् । अभिभवो हि न सजातीयसाक्षात्कारग्रहणकृतम- ग्रहणम् । किंतु