सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 267, कुल 723 में से
संदर्भ में पढ़ेंछेद्याधिकारः १६५ चक्रांशैरङ्कयम् । अथोच्चरेखोपरि नीयमाना यत्र लगति तत्र प्रतिमण्डलेप्युच्चं कल्प्यम् । तस्मादुच्चां शभागान् विलोमतो गणयित्वा तदग्रे मेषादिः कल्प्यः । ततो ग्रहोऽनुलोमं देयः । तत्र ग्रहोच्चयोरन्तरं केन्द्रम् । उच्चरेखायास्तिर्यग्ग्रह- गामिनी रखा सा दोर्ज्या । प्रतिमण्डलमध्ये या तिर्यग्रेखा तद्ग्रहयोरन्तरं कोटि- ज्या । सा किलोर्ध्वरूपा भवति ॥१०।११।१२।१३।१४॥ मरीचिः—अथ छेद्यकविधानकथने प्रथमं वृत्तद्वयलेखनमुपजातिकयाऽऽह—त्रिभज्य- केति । कर्कटकशलाकाग्रयोरन्तरं त्रिज्याप्रमाणं धृत्वाऽभीष्टस्थानात्तेन कक्षासंज्ञं वृत्तं प्रथम- मादौ लिखित्वा तद्वृत्तमध्यकेन्द्रादभितो मध्यग्रहविकलापञ्चदशांशमितव्यासार्धेन सुवृत्तां महीं पृथ्वीसंज्ञं वृत्तं लिखेत् ।