भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 286, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 286

शीघ्रनीचोच्चवृत्तस्य मध्यस्थितिं ज्ञातुमादौ कृतं कर्म मान्दं ततः । खेटबोधाय शैघ्यं मिथः संश्रिते मान्दशैघ्ये हि तेनासकृत् साधिते ॥३५॥ वा०भा०—नीचोच्चवृत्तभङ्गिपर्यालोचनयैव परिणमतीति स्पष्टार्थम् ॥३४॥३५॥ मरीचिः ननु तथाऽपि नीचोच्चवृत्तभङ्ग्या कक्षावृत्तस्थमध्यग्रहचिह्नान्मन्दनी- चोच्चवृत्तशीघ्रनीचोच्चवृत्तद्वयस्योल्लेखनात्तदनुरोधेन नीचोच्चवृत्तमध्यस्पष्टग्रहस्थान- द्वयान्तरयोर्मन्दशीघ्रफलत्वात्केन फलसंस्कारेण ग्रहस्पष्टत्वं भवतीत्यतः स्रग्विण्याऽऽह— मध्यगत्येति । मध्यगत्या स्वकक्षाख्यवृत्ते मध्यगत्या ग्रहो गच्छेत् । ननु कक्षावृत्ते ग्रहावस्थानाभा- वादन्यथा फलानुपपत्तेः कथं तत्र मध्यगत्या ग्रहो गच्छतीत्यत आह—मन्दनीचोच्चवृत्त- स्येति । यतः कारणान्मन्दनीचोच्चवृत्तस्य कक्षास्थमध्यग्रहचिह्नं मध्यं स्यात् । तथा च ग्रहावस्थानाभावेऽपि मध्यग्रहभोगस्थानस्य कक्षायां सत्त्वात्कल्प्यते मध्यग्रहगमनं मध्य- गत्या । अन्यथा मन्दनीचोच्चवृत्तं फलज्ञानार्थं कथमुल्लेख्यमिति भावः । एतेन शीघ्र- नीचोच्चवृत्तमध्यं कक्षास्थमध्यग्रहचिह्ने नास्तीति मध्यग्रहस्थानाच्छीघ्रनीचोच्चवृत्तं नोल्लिखेदिति सूचितम् । ननु तर्हि शीघ्रनीचोच्चवृत्तं कस्मादुल्लेख्यमत आह—तद्वृत्ता- विति । मन्दकर्णसूत्रसक्तकक्षावृत्तपरिधिप्रदेशे मन्दस्फुटस्थाने । मन्दनीचोच्चवृत्तादेव तत्कक्षाप्रदेशज्ञानात्तद्वृत्तावित्युक्तम् । नतु मन्दनीचोच्चवृत्तपरिधिस्थग्रहचिह्न इत्यर्थः । मन्दफलरीत्यवगतशीघ्रफलस्यानुत्पत्तेः शीघ्रनीचोच्चवृत्तस्य मध्यं भवति । तथा यथा मध्यग्रहस्थाने कक्षायां मन्दनीचोच्चवृत्तमध्यमस्ति तद्वदेव मन्दस्फुटग्रहस्थाने कक्षायामेव शीघ्रनीचोच्चवृत्तमध्यं भवतीति ततस्तदुल्लेख्यमिति भावः । शीघ्रनीचोच्चवृत्ते मन्दस्फुट- ग्रहभोगदाने यथास्थानं तत्र स्फुटो बिम्बस्वरूपो ग्रहः । तथा च मध्यग्रहादुभयोः फलयोर- भावात्केन फलेन स्पष्टत्वमित्याशङ्कानवकाशः फलद्वयसंस्कारेण स्फुटग्रहभोगस्य ज्ञानादिति भावः ॥ ३४ ॥ ननु शीघ्रनीचोच्चवृत्ते स्फुटग्रहावस्थानात्तस्य च मन्दफलसंस्कारेण ज्ञाना- च्छीघ्रफलं व्यर्थमित्यतः फलद्वयसंस्कारक्रमोपपत्तिकथनच्छलेन तदुत्तरं तत्प्रसङ्गादन्यदपि स्रग्विण्याऽऽह—शीघ्रनीचोच्चेति । कक्षावृत्ते शीघ्रनीचोच्चवृत्तस्य मध्यस्थितिः केन्द्रावस्थानं ज्ञातुं शीघ्रनीचो- च्चवृत्तमध्यं कक्षायां कुत्रेत्यस्य ज्ञानार्थं प्रथमं मान्दं कर्म मध्यग्रहे कृतं कक्षायां मन्दस्फुटभोगस्थानस्य तन्मध्यत्वात् । ततोऽन्तरं खेटबोधाय शीघ्रनीचोच्चवृत्त- स्थितो ग्रहो येन कक्षाप्रदेशमार्गेण दृश्यते तत्कक्षाप्रदेशे तस्य स्फुटभोगज्ञाननिमित्तं शैघ्यं कर्म मन्दस्फुटे कृतम् । अथासकृत्साधनोपपत्तिमाह—मिथ इति । हि यतः कारणा- न्मान्दशैघ्ये फले परस्परं संश्रिते सापेक्षे । तेन कारणेन ते फले असकृदनेकवारं साधिते ।

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 286, कुल 723 में से · BharatKosha