सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 301, कुल 723 में से
संदर्भ में पढ़ेंज्योत्पत्तिवासना १९९ यद्दोर्ज्ययोरन्तरमिष्टयोर्यत्कोटिज्ययोस्तत्कृतियोगमूलम् । दलीकृतं स्याद्भुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ॥१३॥ दोःकोटिजीवाविवरस्य वर्गो दलीकृतस्तस्य पदेन तुल्या । स्यात्कोटिबाह्वोर्विवरार्धजीवा वक्ष्येऽथ मूलग्रहणं विनाऽपि ॥१४॥ दोर्ज्याकृतिर्व्यासदलार्धभक्ता लब्धन्त्रिमोर्व्योर्विवरेण तुल्या । दोःकोटिभागान्तरशिञ्जिनी स्याज्ज्यार्धानि वा कानिचिदेवमत्र ॥१५॥ स्वगोङ्केषुषडंशेन ६५६९ वर्जिता भुजशिञ्जिनी । कोटिज्या दशभिः क्षुण्णा त्रिसप्तेषु५७३विभाजिता ॥१६॥ तदैक्यमग्रजीवा स्यादन्तरं पूर्वशिञ्जिनी । प्रथमज्या भवेदेवं षष्टिरन्यास्ततस्ततः ॥१७॥ व्यासार्धेऽष्टगुणाब्ध्यग्नितुल्ये स्युर्नवतिर्ज्यकाः । कोटिजीवा शताभ्यस्ता गोदस्रतिथि१५२९भाजिता ॥१८॥ दोर्ज्या स्वाद्यङ्गवेदांश ४६७ हीना तद्योगसंमिता । तदग्रज्या तयोश्चापि विवरं पूर्वशिञ्जिनी ॥१९॥ तत्त्वदस्रा नगांशोना २२४ । ५१ एवमत्राऽऽद्यशिञ्जिनी । ज्यापरस्परयैवं वा चतुर्विंशतिमौर्विकाः ॥२०॥ चापयोरिष्टयोर्दोर्ज्ये मिथःकोटिज्यकाहते । त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्य दोर्ज्यका ॥२१॥ चापान्तरस्य जीवा स्यात्तयोरन्तरसंमिता । अन्यज्यासाधने सम्यगियं ज्याभावनोदिता ॥२२॥ समासभावना चैका तथाऽन्याऽन्तरभावना । आद्यज्याचापभागानां प्रतिभागज्यकाविधिः ॥२३॥ या ज्याऽनुपातः सेष्टव्यासार्धे परिणम्यते । आद्यदोःकोटिजीवाभ्यामेवं कार्या ततो मुहुः ॥२४॥ भावना स्युस्तदग्रज्या इष्टे व्यासडले स्फुटाः । स्थूलं ज्यानयनं पाट्यामिह तन्नोदितं मया ॥२५॥ इति ज्योत्पत्तिः ।