भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 303, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 303

ज्योत्पत्तिवासना २०१ एवमतोऽप्यन्याः । तद्यथा । अष्टमात् षोडशं १६ ज्यार्धम् । षोडशाच्चतुर्थं ४ विंशं च २० । चतुर्थाद्दशमं १० चतुर्दशं च १४ । एवं सर्वाण्यपि । प्रकारान्तरमाह- यद्दोर्ज्ययोरन्तरमित्यादि । इष्टदोर्ज्ययोर्यदन्तरं कोटिज्य- योश्च यत् तयोर्वर्गैक्यमूलस्य दलं भुजयोरन्तरार्धस्य ज्या भवति । एवमन्ययो- रन्यान्याः । यथैका किल चतुर्थी ४ । अन्याऽष्टमी ८ दोर्ज्या । ताभ्यां द्वितीया २ । सिध्यति । द्वितीयाचतुर्थीभ्यां प्रथमे १ त्यादि । तथा दोःकोटिज्ययोरन्तरवर्गदलस्य मूलं दोःकोटिभागान्तरार्धस्य ज्या स्यात् । यथाऽष्टमी ८ दोर्ज्या । षोडशी १६ कोटिज्या । ताभ्यां चतुर्थी ४ स्यादित्यादि । अथ मूलग्रहणक्रियया विनाऽपि दोःकोटिभागान्तरज्यानयनमाह-दोर्ज्या- कृतिरित्यादि । दोर्ज्यावर्गस्त्रिज्यार्धेन भक्तः । तस्य त्रिज्यायाश्च विवरं दोःको- ट्यन्तरस्य ज्या स्यात् । कानिचिदेवमत्र ज्यार्धानि साध्यानि । तद्यथा । यत्र किल त्रिंशज्ज्यार्धानि तत्र त्रिज्यार्धं दशमम् १० । तत्कोटिज्या विशतितमम् २० । शरवेदां शज्या पञ्चदशम् । षट्त्रिंशदंशज्या द्वादशम् १२ । तत्कोटिज्याऽष्टादशं १८ ज्यार्धम् । अष्टादशभागानां ज्या षष्ठम् ६ । तत्कोटिज्या चतुर्विंश २४मिति । क्रमोत्क्रमज्याकृतियोगमूलादित्यादिना पूर्वोक्तप्रकारेण दशमात् पञ्चमम् ५ । तत्कोटिज्या पञ्चविंशम् २५। एवं द्वादशात् षष्ठं ६ चतुर्विंशं २४ च । षष्ठात् तृतीयं ३ सप्तविंशं २७ च । अष्टादशान्नवम ९ मेकविंशं २१ च । एतान्येवानेन प्रकारेण सिध्यन्ति नान्यानि । अत उक्तं कानिचिदेवमत्रेति । यद्दोर्ज्ययोरन्तरमित्यादि- प्रकारेण । अतोऽत्र पञ्चमपमेका दोर्ज्या नवमपमन्या । आभ्यां यद्दोर्ज्ययोरन्तर- मित्यादिना प्रकारेण भुजयोरन्तरार्धस्य ज्योत्पद्यते । तच्च द्वितीयं २ ज्यार्धम् । तत्कोटिज्याऽष्टाविंशम् २८। आभ्यां क्रमोत्क्रमज्याकृतियोगमूलादर्धमित्यादि- प्रकारेणाऽऽद्यं १ चतुर्दशं १४ च । एवमन्याश्चतुर्दश सिध्यन्ति । अथ ज्याभावना । सा च द्वेधा । एका समासभावना । अन्याऽन्तरभावना । तदर्थमाह-स्वगोऽङ्गेषुषदंशेनेत्यादि । यत्र किल वसुत्रिवेदाग्न ३४३८ तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र तावदुच्यते । तत्र मूलभूतज्यानां मध्ये काचनेष्टा भुजज्या तत्कोटिज्या च पृथक् स्थाप्या । भुजज्या स्वनवषडिषुरस ६५६९ विभागेन रहिता कार्या । कोटिज्या तु दशगुणा त्रिसप्तपञ्चभि ५७३ भर्ज्या । तयोरैक्यं तद- ग्रज्या । अन्तरं पूर्वज्या स्यात् । यथा त्रिज्यार्धं त्रिंशत्संख्याकं ज्यार्धम् ३० । ततः समासभावनयैकर्त्रिंशत्संख्यम् ३१ । तस्माद् द्वात्रिंशत्संख्यमित्यादि । अन्तर- भावनया त्वेकोनत्रिंश २९ मष्टाविंश २८ मित्यादि । पूर्णं दोर्ज्यां कोटिज्यां त्रिज्यां च प्रकल्प्य प्रथमं १ खण्डमेवं षष्टिः ६० स्यात् ।

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 303, कुल 723 में से · BharatKosha