सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 306, कुल 723 में से
संदर्भ में पढ़ें२०४ गोलाध्याये अथ प्रतिज्ञातेनाऽऽनयनेनैकद्विव्यासाधैैकराशीनां ज्यासाधनमार्ययाऽऽह-त्रिज्यार्धमिति । पूर्वं प्रतिपादनात्स्पष्टार्थम् ॥६॥ अथाऽऽर्यया षट्त्रिंशज्ज्यासाधनमाह-त्रिज्येति । त्रिज्यावर्गस्य वर्गः पञ्चगुणितस्तन्मूले पञ्चगुणितस्त्रिज्यावर्गो हीनोऽष्टभिर्भक्तः फल- मूलं षट्त्रिंशदंशानामर्धज्या स्यादित्यर्थः । अत्रोनस्थाने युतावधारणेन द्विसप्ततिभागज्या स्यादिति ध्येयम् । अत्र लक्ष्मीदासमिश्रास्त्रिज्यार्धस्यैकराशिज्यात्वात्तद्वर्गस्त्रिज्यावर्गपादरूप- स्त्रिज्यावर्गद्विघाताष्टमांशतुल्यः । केवलैष्टगुणितभाज्यहाराभ्यां फलयोस्तुल्यत्वात् । तत्र त्रिज्यावर्गद्विघातरूपभाज्यः प्रकारान्तरेणाऽऽनीतो द्विगुणो भाज्यो भाज्योनो भाज्य इति वियोजकभाज्यस्य भाज्यवर्गमूलरूपत्वाद्द्विगुणो भाज्यो भाजकवर्गमूलेन हीनो भाज्यः स्यात् । तथा चतुर्गुणस्त्रिज्यावर्गस्त्रिज्यावर्गवर्गचतुर्घातान्मूलेन हीनो भाज्यः स्यादित्ययमष्टभक्तः फलमूलमेकराशिज्येति सिद्धम् । एवं तत्कोटिराशिज्याया द्विराशित्वाद्विराशिज्यावर्गस्त्रि- ज्यावर्गत्रिघातचतुर्थांशरूपः । अत्र भाज्यत्रिगुणो भाज्यवर्गमूलरूपभाज्योनो द्विगुणो भाज्यः स्यादित्ययमष्टभक्तो द्विराशिज्यावर्गस्तेन त्रिज्यावर्गो नवगुणस्त्रिज्यावर्गवर्गनवघाता- न्मूलेऽष्टहीनो भक्तः फलमूलं द्विराशिज्या सिद्धा । तथा चंकरीत्यैकद्विराश्योर्ज्यासाधने गुणकौ चतुर्नवमितौ । तदन्तरं पञ्चेति तदन्तरांशैस्त्रिंशन्मितैः पञ्चगुणकान्तरं तदा षडंशैः किमित्यनुपाताल्लब्धमेकः । अनेनैकराशिज्यासाधनाश्रितचतुर्मितो गुणको युतः षट्त्रिंशदंशा- नामुक्तरीत्या ज्यासाधनार्थं पञ्चगुणसिद्धो नवषड्भागान्तरेणैकमितगुणान्तरासिद्धद्योक्तरीत्या द्वादशांशज्यासाधनार्थं गुणस्यैकमितत्वादुक्तरीत्या तदंशानां ज्याभावापत्तेर्नवत्यासन्नांशानां ज्यायास्त्रिज्याधिक्यात्तेश्चोक्तमिदमनुपपन्नमिति वाच्यम् । उक्तप्रकारस्य त्रिंशत्षष्टि- भागमूलकत्वेन तदभ्यन्तरस्थितांशानामुक्तरीत्या ज्यासाधनादन्यथा त्रिदशगुणहरणेनोक्त- रीत्या ज्यासाधनादन्यथा त्रिदशगुणग्रहणेनोक्तरीत्या चतुर्विंशतिषट्षष्ट्यंशयोर्ज्या- साधनकथनापत्तेः । न चैवं द्विचत्वारिंशदंशादीनां षडादिगुणग्रहणेन ज्यासाधनकथनापत्ति- रिति वाच्यम् । ज्यानां क्षेत्रसंबन्धाद्वर्गतन्मूलद्वारा तत्साधनस्य युक्तत्वेनात्र त्रैराशिक- प्रवृत्त्या हठात्तदभ्युपगमेन यथांशबाहुल्यं तथाऽन्तरपातादित्युपपत्तिमालपन्ति । तत्र द्विगुणषड्गुणाभ्यां त्रिज्यावर्गाभ्यामष्टमांशमूलयोरेकद्विराशिज्यात्वात्तदनुरोधेन सार्ध- सप्तत्रिंशदंशानां त्रिगुणस्य त्रिज्यावर्गस्याष्टमांशान्मूले सूक्ष्मज्यासिद्धिप्रसङ्गात् । षट्त्रिंशदंशज्यायाः साधनोपपत्तेः सूक्ष्मत्वेन प्रतिपादयिष्यमाणत्वात्स्थूलत्वाभावाच्च । यत्तु त्रिज्याविंशत्यंशमष्टादशभागोत्क्रमज्यामङ्गीकृत्य व्यासाच्छरोनाच्छरसङ्गुणाच्चे- त्युक्तरीत्याऽष्टादशांशानां क्रमज्यावर्गः । त्रिव ३९ अस्माद्दोर्ज्याकृतिर्व्या ४०० सदलार्धभक्ता लब्धत्रिमोर्व्योर्विवरेणतुल्या । दोःकोटिभागान्तरशिञ्जिनी स्यादिति वक्ष्यमाणप्रकारेण चतुष्पञ्चाशदंशज्या त्रिव० २५१२१ एतद्वर्गोनस्त्रिज्यावर्गः षट्त्रिंशदंश- ४००००