सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 308, कुल 723 में से
संदर्भ में पढ़ें२०६ गोलाध्याये १ त्रि० ५ । अस्मात्त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदंशाकसिञ्जिनीत्यनेन षट्त्रिंशदंश- ४ ज्यासाधने तद्वर्गः सिद्धोऽयं तावत् । मू० त्रि० १ त्रि० व ० ५ । अत्र त्रिज्याकृतीषुघातान्मूल- लाभाभावादासन्नमूलग्रहणान्नारगुणे बह्वन्तरपाताच्च प्रथमतर एव मूलवर्गस्त्रिज्याकृतीषुघा- तात्मको वर्गेण वर्गं गुणयेदित्युक्तत्वात्त्रिज्यावर्गगुणितस्तत्पदं मूलत्रिज्याघातरूपं सूक्ष्मं तदून- स्त्रिज्याकृतीषुघातादष्टभक्तःफलं षट्त्रिंशदंशानां ज्यावर्गस्तन्मूलं तेषां ज्यत्युपपन्नं त्रिज्या- कृतीषुघातात्त्रिज्याक्वतिवर्गपञ्चघातस्य । मूलोनादष्टहृतान्मूलं षट्त्रिंशदंशज्या' इति । अष्टादशभागज्यानयनोपपत्तिस्तु वृत्तपरिधि समदशविभागं कृत्वा तच्चिह्नद्वयाभ्यां पूर्वापरा याम्योत्तरा रेखा वृत्ते कार्या