सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 347, कुल 723 में से
संदर्भ में पढ़ेंइति सूर्यसिद्धान्तवचनादयमर्थः । क्रान्तिवृत्तं स्वाकारेण सप्तविंशतिभागपर्यन्तं पश्चि- मतो भगोले क्रमेण चलति । ततस्तत्क्रमेण परावर्त्य स्वस्थाने भवतीत्येवमेकः परिवर्तो भगणः । ननु ग्रहवद्द्वादशराश्यात्मकचक्रभोगाद्भगणः । एतादृशभगणा महायुगे त्रिंशत्कृ- त्वो विंशतिर्गुणिताः षट्शत ६०० मिताः । तेन कल्पे सहस्रगुणिता एते भगणाः षड्लक्षं सिद्धाः । नायुतत्रयम् । न च त्रिंशद्वारं कृतिरित्यनेन त्रिंशत्कृतय इत्यपेक्षितम् । तथा पाठे छन्दोभङ्गः । अतस्तत्र त्रिंशत्कृत्व इति पाठः । त्रिंशद्वारं प्राक्परयोः क्रान्तिवृत्तं युगेऽवल- म्बते । युगे त्रिंशन्मितास्तद्भगणा इत्यर्थः । भगणभोगोऽपि ग्रहवच्चक्रभ्रमरूपः कॢप्[प्त]त्वात् । अन्यथाकल्पने मानाभावाच्च । तथा च त्रिंशद्युगभगणाः सहस्र