सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 365, कुल 723 में से
संदर्भ में पढ़ेंगोलबन्धाधिकारः २६३ योजनावश्यकत्वाच्च यथास्थितमन्दफलसंस्कारस्य शीघ्रोच्चे पठितपातभगणोत्पन्नपाते वोपपन्नत्वात् । नहि मन्दस्पष्टग्रहो न शीघ्रोच्चरूपकेन्द्रवास्तवार्थं पातस्य क्षेपः । स च शरसाधनार्थं मध्यमग्रहे क्षेप्य इति येन व्यस्तमन्दफलसंस्करणं पाते शीघ्रोच्चे वोपपन्नम् । तादृशक्षेपयोर्भानाभावात् । न च बुधशुक्रयोः पातस्पष्टत्वं व्यस्तमन्दफलसंस्कारेणान्येषां तु शीघ्रफलव्यस्तसंस्कारेणेति वाच्यम् । मानाभावात् । लाघवादनुगमेन तयोरपि व्यस्तशीघ्र- फलसंस्कारेण स्पष्टत्वस्य युक्तत्वात्प्रतिपादितत्वाच्च । अन्यथा स्पष्टग्रहे योजनान्मध्यग्र- हयोर्नाशादुभयफलयथास्थितसंस्कारे मन्दफलयोरपि नाशादुच्चे पाते वा शीघ्रफलस्य ग्रह- वत्संसकारापत्तेः । एतेन ब्रह्मगुप्तसिद्धान्तभाष्ये चतुर्वेदाचार्यैर्बुधशुक्रयोः शीघ्रोच्चपाता[भ्यां] युतं केन्द्रं