भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 384, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 384

२८२ गोलाध्याये त्वसंभवेऽपि चन्द्रादिकृताहोरात्रस्य तद्दिनभगणभोगकालत्वेन तद्दिनमानत्वसिद्धेरित्यतो दिनरात्र्योर्व्यवहारोपयुक्तं लक्षणमन्यदपि वंशस्थेनाऽऽह—दिनं दिनेशस्येति । यतः कार- णात् । अत्र जगति । दिनेशस्य सूर्यस्य दर्शने सति दिनं भवति । तथा च ग्रहेषु सूर्यस्यैव तेजोगोलकत्वेन तत्प्रकाशास्यान्यग्रहप्रकाशेभ्योऽधिकत्वात्तस्य चक्षुर्ग्रहणविषयरूपदर्शनं स्वक्षितिजादधःसंचरणे संभवतीति क्षितिजादधः सूर्यसंचरणकालो दिनमिति फलितार्थन्मे- बादिव्यवधानादर्शनेऽपि न क्षतिः । अन्येषां तु तादृशकालो गौणदिनं दृश्यकालो वाऽत एव सूर्यस्य दिनेशत्वम् । ननु दिनेशदर्शनकालस्य दिनत्वे रात्रिदर्शनकालस्य रात्रित्वं सिद्धं न दिनाभावरूपता रात्रेः सिद्ध्येत आह—तमीति । तमोहन्तुः सूर्यस्यादर्शने सति तमी रात्रिर्भवति । तथा च रात्रेस्तमिस्रा तामसीत्यभिधानेनान्धकारप्राचुर्येणावगमसत्त्वमन्ध- कारप्रबलनाशकसूर्यस्यादर्शने भवति । अदर्शनं च क्षितिजाधः सूर्यसंचरणकाल इति तत्कालो रात्रिर्दिनाभावरूपा सिद्धा । सूर्यस्यादर्शनं रात्रिर्दिनं तद्दर्शनात्मकम् । ध्रुवृत्तादुपरि च स्थितोऽर्को दर्शनं स्मृतमिति वृद्धवसिष्ठसिद्धान्तोक्तेः । एवं चाहोरात्रव्यवहारस्य सूर्याधीन- त्वाद्देवैत्ययोः सौरवर्षमहोरात्रं नियतं सम्यगेवोक्तमिति भावः । ननु भूगोलाधंदर्शनसिद्ध- स्वस्वक्षितिजवृत्तभेदेन दिनरात्र्योः सिद्धौ पितॄणां कथं दिनरात्रिसंभवः । तेषां भूमिस्थत्वा- भावेन भूप्रदेशव्यवधानासंभवादित्येतच्च पैत्रं द्युरात्रमित्यनुपपन्नमित्याशयेनोक्तप्रश्नस्य पितृषु किं शशिमासमितं तथेत्यस्योत्तरमाह—कुपृष्ठगानामिति भूगोलपृष्ठसंस्थानां नृणां सचेतनानां यथा सूर्यदर्शनरूपकालोपाधी(धि)क्रमेण द्युनिशमहोरात्रं तथा तद्रूपद्युनिशं राशि- पृष्ठवासिनां गोलरूपचन्द्रस्य पृष्ठ्राधिवासिनां पितॄणामग्निष्वात्तादीनां कर्मिणां भवति । कुपृष्ठगानामित्यनेन मनुष्याणां सूर्यस्य भूगोलाभ्रमणकालोपाधिरहोरात्रं भवति । तथा पितॄणां भूस्थत्वाभावेऽपि चन्द्रबिम्बगोलाभितः सूर्यभ्रमणकालोपाधिश्चन्द्रमासमिताहोरात्रं सम्यगुक्तमिति भावः । कुपृष्ठगानां नृणामित्युक्तेन पूर्वाविगतं दिनार्धं रात्र्यर्धं च भूगर्भ- संबन्धिरविकक्षाद्योजनैरहोरात्रासवस्तदा भूव्यासार्धयोजनैः के इत्यनुपातजासुभिः क्रमेण हीनं युतं भूपृष्ठस्थानां दिनार्धं रात्र्यर्धं च भवति । भूपृष्ठस्थसूर्योदयास्ताद्यवगतक्षिति- जस्यान्याकाशभूसंयोगाभासस्य भूगर्भक्षितिजात्सर्वतो भूव्यासार्धयोजनैरुद्धितत्वादिति ध्येयम् ॥१०॥ केदारदत्तः— भूपृष्ठ स्थित मानव की तरह चन्द्रपृष्ठस्थ पितरों का दिनमान— जहाँ सूर्यदर्शन है वहाँ दिन, सूर्यदर्शन रहित भूपृष्ठ में रात्रि होती हैं। जैसे भूपृष्ठस्थ प्राणियों की दिन रात्रि होती है उसी भाँति चन्द्रपृष्ठस्थ पितरों की भी दिन रात्रि होती है ॥१०॥ इदानीं संहितोक्तस्याभिप्रायमाह— दिनं सुराणामयनं यदुत्तरं निशेतरत्सांहितिकैः प्रकीर्तितम् । दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्तनाय तत् ॥११॥