भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 386, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 386

२४४ गोलाध्याये संक्रान्तावुत्तरपूर्वककालयोः क्रमेणोत्तरायणकालसंबन्धप्राशस्त्यात्पुण्यत्वमित्युक्तं संगच्छते । अनयैव रीत्या दिनपूर्वापरार्धयोः कल्पितराशिसंक्रान्तौ क्रमेणाऽऽद्यान्त्यदिनं संक्रान्तिदिन- मुत्तरपूर्वमाससंबन्धि यवनैः स्वशास्त्रेऽभिहितमिति भावः ॥११॥ अथ मदुक्ततदाशयव्यतिरेकेण गोलवासनासिद्धरविदर्शनादर्शनप्रयुक्तदिनरात्र्युक्त्या संहितोक्तं संगच्छत इति मन्दावबोधार्थमिन्द्रवज्रयाऽऽह-द्वंद्वान्तमिति । यैरहोरात्रवृत्तैः स्वसंचारविषयैरिनः सूर्यः कल्पितमेषादिमारभ्य द्वंद्वान्तं कल्पितमिथुनराश्यन्तिमभागमारो- हति क्रमेण तैरहोरात्रवृत्तैः । एवकारात्तद्भ्रमणमार्गातिरिक्तभ्रमणमार्गनिरासः । उत्क्रमेण कर्कादिमारभ्य कल्पितकन्यान्तमवरोहनि । इति गोले रविसंचारप्रसिद्धिः । नन्वेतावता प्रकृते किं दूष[ण]मित्यत आह—यत्रेति । देवैर्मेरुस्थैः स सूर्यः प्रथममारोहणावसरे मेषादि- त्रये । यत्र भ्रमणमार्गै रहोरात्रवृत्ते । एवकारात्तदवान्तरप्रदेशानां संग्रहः । दृष्टो नयनज्ञान- विषयीकृतः । तत्र तन्मार्गे तत्स्थाने । एवकारात्तदतिरिक्तमार्गनिरासः । सूर्यः । अवरोहणा- वसरे कर्कादित्रये तिष्ठन् भ्रमन् मेरुस्थैः किं कुतो नाऽऽलोक्यते । तथा च मेरुस्थानां विषुवद्वृत्तस्य क्षितिजत्वान्तदूर्ध्वं कल्पितमेषादिराशिष्ट्कस्थितोऽर्कः प्रवहेण भ्रमन्नयन- गोचरोऽपि कल्पितमेषादित्रये दृश्यः कल्पितकर्कादित्रये त्वदृश्य इति व्यवधानाभावादयुक्त- मन्यथा कल्पितमेषादित्रये तद्दर्शनापत्तेः । एवं विषुवद्वृत्तरूपक्षितिजादधः कल्पिततुलादि- त्रये । यन्मार्गे रविर्भ्रमति तन्मार्गेणैव कल्पितमकरादित्रये भ्रमतीति तुलादित्रये न दृश्यो मकरादित्रये च दृश्य इत्यप्ययुक्तम् । क्षितिजन्यव्यवधानस्य तुल्यत्वादन्यथा तुलादित्रये तद्दर्शनापत्तिरिति स्फुटं दूषणमिति भावः । यत्तु यन्मते देवानामूत्तरदक्षिणायने दिनरात्री तन्मते देवा मेरुस्था न किंत्वन्यत्र स्थिता इति चतुर्वेदाचार्य्योक्तम् । तन्न । भूप्रदेशोऽन्यत्र यस्मिन् कस्मिन्नपि भागे क्षितिजोर्ध्वाधः क्रमेण मकरकर्कादिषड्भभ्रमणाप्रसिद्धेः । नहि यमकोटौ देवा अधिष्ठिताः, क्रान्तिवृत्तं च स्वाकारेण स्थिरं प्रवहवायुभ्रमितम् । येनोत्तर- दक्षिणायने देवदिनरात्री सुस्थे । तस्मात्पूर्वोक्तमतकल्पितवासनयैव सांहितिकोक्तं देवद्युरात्रं सुस्थम् । एतेन मेषवृषभमिथुनसंस्थे दिवसोऽर्के कर्कटादिगे रात्रिः। यैरूदिता विबुधानां मेरुस्थानां नमस्तेभ्यः । येष्वेवोदङ्मेषाद्यादिस्थानेषु सन्निवृत्तोऽपि तेष्वेव कथं दृश्यः पुनर्न दृश्यश्च तत्रस्थ इति वराहमिहिराचार्योक्तं निरस्तमिति सूचितम् ॥१२॥ केदारदत्तः—दिन रात्रि सम्बन्ध में संहिताशास्त्रज्ञों का मत— मध्य रात्रि के पश्चात् सूर्य दिनोन्मुख हो जाने से मध्य रात्रि से मध्याह्न तक के समय की दिन संज्ञा एवं मध्य दिन के बाद रात्रि की उन्मुखता से, मध्य दिन से रात्रि मध्य तक की रात्रि संज्ञा संहिता शास्त्रकारों के मत से हुई है । इस आधार से उत्तर ध्रुव में कर्कादि से लेकर धन्वन्त तक रात्रि, दक्षिण ध्रुव में दिन तथा मकरादि से मिथु- नान्त तक उत्तर ध्रुव में दिन, दक्षिण ध्रुव में रात्रि होती है । यह मत सांहितिकों का है जो गोल युक्ति से बहिर्भूत है ॥११।१२॥