भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 392, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 392

२९० गोलाध्याये है। इसी को एक कल्प कहिए। दूरद्रष्टा ऋषियों की बुद्धिस्थ इस खगोल ज्ञान के आधार पर, ही "पुराकल्पेऽपि" पूर्व कल्प में भी "ऐसा होता था" इत्यादि विषय में सविशेष कहा गया है ॥१५॥ इदानीमुदयवासनामाह— यो हि प्रदेशोऽपममण्डलस्य तिर्यक्स्थितो यात्युदयं तथास्तम्। सोऽल्पेन कालेन य ऊर्ध्वसंस्थोऽनल्पेनसोस्मादुदया न तुल्याः ॥१६॥ य उद्गमे याम्यनता मृगाद्याः स्वस्वापमेनापि निरक्षदेशे । याम्याक्षतस्तेऽतिनतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन ॥१७॥ कर्क्यादयः सौम्यनता हि येऽत्र ते यान्ति याम्याक्षवशादृजुत्वम् । कालेन तस्माद्बहुनोदयन्ते तदन्तरे स्वं चरखण्डमेव ॥१८॥ वा० भा०—विषुवदहोरात्रवृत्तानि लङ्कायां समपश्चिमगानि । राशिवलयं तु मकरादौ परमक्रान्त्या विषुवन्मण्डलाद्दक्षिणतो मिथुनान्त उत्तरतो लग्नमत- स्तिरश्चीनम् । तत्रापि मेषः स्वक्रान्त्या महत्या तिरश्चीन उदेति, अतोऽल्पकालो- दयः, । वृषभस्तदल्पयाऽतस्तस्मात्किंचिदधिककालः । मिथुनस्तदल्पयाऽस्तदधिक- कालः । एवं निरक्षेऽपि न समा उदयाः । अथ ये मकरादयो याम्ये नतास्ते याम्याक्षवशादतिनता उद्गच्छन्ति स्वदेशेऽतोऽल्पकालोदयाः । ये तु कर्क्यादयः स्वस्वक्रान्त्या सौम्ये नतास्ते याम्याक्षवशादृजुत्वं गता उद्यन्ति । अतश्चिरकालो- दयाः । लङ्कास्वदेशोदयोरन्तराले स्वं चरखण्डमेव भवति । यतस्तत्क्षितिज- योरन्तराले चरम् ॥१६॥१७॥१८॥ मरीचिः—अथ भवलयस्य किलार्कल्वाः समा इत्याद्युक्तप्रश्नस्येन्द्रवज्रयोत्तरमाह- यो हि प्रदेश इति। अस्मात्कारणात् । उदयाः कल्पितराश्युदयकालासवः । उपलक्षणाद्रा- (श)श्यस्तकालासवः । न तुल्यास्तुल्यप्रमाणा न भवन्ति । हि यस्मात्कारणात् । अपममण्ड- लस्य पूर्वप्रतिपादितक्रान्तिवृत्तस्य यः प्रदेशः त्रिंशद्भागात्मकः कल्पितराशिस्तिर्यक्स्थितः । प्रवहगत्यनुरोधेन तिरश्चीनतया स्थितः । स राशिरल्पेनास्वात्मककालेन । उदयं क्षितिज- प्राग्भागसक्तत्वम् । अस्तं क्षितिजापरभागसक्तत्वम् । तथेति समुच्चये । याति प्राप्नोति । यः क्रान्तिवृत्तस्थकल्पितराशिः । ऊर्ध्वसंस्थः । प्रवहवाय्वंशगमनमार्गवियवप्रदेशाकारेण किंचित्तदासन्नतया वा स्थितः स राशिः । अनल्पेन बहुना कालेनास्वात्मकेनोदयमस्तं च प्राप्नोति । तथा च क्रान्तिवृत्तं यदि विषुवद्वृत्ताकारं स्यात्तदा खलु प्रवहेण स्वकारेण भ्रम- क्रमेणैव क्षितिजवृत्ते तदवयवः संलग्नो भवतीति राशीनामुदयाः पञ्च घटचो नाक्षत्रास्तुल्याः संभवन्ति । न चैवं सूर्यस्य दक्षिणोत्तरगमनात्त्रिंशद्धटीमितेतरदिनमानोपलम्भाच्च । यदि तु क्रान्तिवृत्तमुन्मण्डलाकारं स्यात्तदा निरक्षाक्षितिजे युगपदेव संलग्ना राशयः स्युरित्युदयास्त-