सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 438, कुल 723 में से
संदर्भ में पढ़ेंनक्षत्रकल्पनेऽपसिद्धान्तः । पुराणोक्तस्य स्वरूपान्तरविषयत्वात् । अन्यथा तत्रापि चन्द्रादूर्ध्वं नक्षत्रावस्थानमुक्तमनुपपन्नं स्यात् । अपि च सूर्यतादृशकराणां नयनप्रतिघातमात्रकल्पनेन दिवा नक्षत्रदर्शनसिद्धेः । सर्वार्कग्रहे च सूर्यकराणां तादृशानां चन्द्रेणावरुद्धत्वान्नयनप्रति- घाताभावान्नक्षत्रदर्शनसिद्धेर्मण्डलपरिलोपकल्पनं व्यर्थमेव । न च मेघादिनाऽऽच्छादितरवौ नक्षत्रदर्शनोपपत्तिरिति वाच्यम् । मेघखण्डादेरल्पतया विरलव(लावयवत)या चन्द्रवदति- दृढासन्नत्वाभावाच्च तादृशकिरणावरोधकत्वाभावात् । एतेन शुक्रबुधयोश्चन्द्रोर्ध्वस्थत्वेत सर्वार्कग्रहे तत्पर्याप्ततत्कराप्राचुर्याभावकल्पनेन मण्डलपरिलोपासम्भवार्दर्शनमित्युक्तं निरस्तम् । अन्यदेव तदाऽपि तत्पर्याप्ततत्कराप्राचुर्याधिक्यसंभवात् । अधःप्रसूतकिरणाना- मप्यवरोधात् । शुक्रादीनां परमास्तसमयजलादर्शा