भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 460, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 460

३५८ गोलाध्याये प्रथमेऽनुपाते त्रिज्या हरो द्युज्या गुणः । तृतीयेऽनुपाते त्रिज्या गुणो द्युज्या हरोऽत- स्तुल्यत्वात्तयोर्नाशे कृते नतासूनां भुजज्याऽक्षजीवया गुणितोपवृत्तव्यासार्धेन भक्ता सा सूक्ष्मा वलनज्या स्यात् । अत उक्तमग्रानृतलयोर्योग इत्यादि । अथ दृष्टान्तः । यत्र किल वृषभान्तक्रान्तितुल्योऽक्षः २०।३८। तत्र वृषभान्त- स्थोऽर्को दिनार्धे खस्वस्तिके भवति । तदा क्रान्तिवृत्तं दृङ्मण्डलाकारं स्यात् । सत्रिगृहोऽर्को राशिपञ्चकं सिंहान्तः । स च तदा क्षितिजे वर्तते । तत् प्राच्यपर- योरन्तरं क्षितिजे प्रत्यक्षं वलनं दृश्यते । सा च सिंहान्तस्याग्रा । तत् कथं सत्रि- गृहोत्क्रमक्रान्तिर्वलनम् । अतोऽसत् । अस्मदानयनं विना नेदमग्रारूपं वलन- मुत्पद्यत इत्यर्थः । [L11