सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 533, कुल 723 में से
संदर्भ में पढ़ेंयथोक्ताः स्वत एव घटिका ज्ञायन्त इत्यर्थः । यत्तु नाडीवलयं चक्रं कृत्वा यष्ट्यां प्रोतं तत् षड्वर्गाङ्कनार्थमेव । यत्तु चक्रं तद्दृङ्मण्डलम् । तत्र नतोन्नतांशज्ञानमेव गोलयुक्त्या भवति । दृङ्मण्डले क्षितिजादुपरि यैर्भागै रविर्भवति तैरेव पश्चिम- क्षितिजादधः कीलकच्छाया लगतीत्यर्थः ग्रहवेधे यदक्षेऽधिष्ण्यद्वयं नेमिस्थं कृत्वा यन्त्रं धृतं तत् क्रान्तिवृत्ताकारावस्थानार्थम् । अतस्तत्रापि गोलयुक्तिरेव वासना । इति चापतुर्ये ॥१५॥ मरीचिः—अथ चापयन्त्रमाह—दलीकृतमिति । चक्रयन्त्रमर्धितं चक्रयन्त्रस्यार्धाकारेण कृतं कालादियन्त्रं चापं धनुर्यन्त्रमुशन्ति वदन्ति । पूर्वाचार्या इति शेषः । अत्र चापपरिधावशीत्यधिकशतं भागा अङ्क्याः ज्यामध्यभागे सूक्ष्मं सुषिरं कृत्वा सूक्ष्मः कोलो ‘निवेश्यः । कीलोपरि यन्त्रज्यामध्ये श्लथशृङ्खलादिराधारः कार्यः । सूर्यबिम्बस्य वाऽनुरोधेन समसूत्रतयाऽधोभागे एका कोटिर्भवति तथाऽऽधारे यन्त्रं धार्यम् । तथा चापपरिधौ कील- च्छाया यत्र पतति तदपरकोट्यन्तरालस्थभागा उन्नतांशाः । चापपरिध्यर्धस्थानादङ्कित- खार्धच्छायान्तराले नतांशाः । यद्वा परिध्यर्धे आधारं कृत्वाऽर्काभिमुखनेमिकं चापयन्त्रं धार्यम् । अत्र चापपरिधौ समसूत्रतया यत्र सूर्यचिह्नं तस्मादासन्ना कोटिर्यैरंशैस्ते उन्न- तांशाः । आधारस्थानं यैरंशैस्ते नतांशाः । उन्नतांशेभ्यः कालानयनं प्रागुक्तमेव । अत्रोप- पत्तिः स्पष्टा । चक्रयन्त्रांशत्वादिति । अथ तुर्ययन्त्रमाह—कोदण्डखण्डमिति । कोदण्डस्य धनुषः खण्डमर्धं तुर्यगोलं तुर्याख्यं यन्त्रम् । चक्रतुर्यांशत्वात् । गोलपदेन यन्त्रं गोलविकृतिरिति सूचितम् । खलु निश्चयेन । पूर्वाचार्या वदन्ति । अत्र परिधौ नवत्यंशा अङ्क्याः । केन्द्रकोणे कीलकं निवेश्य सूर्यबिम्बा- भिमुखं केन्द्रे यन्त्रे यन्त्रे धृते कीलस्य च्छाया यत्र परिधौ पतति तत्सूर्यपरदिक्स्थपरिधि- कोणयोरन्तरमुन्नतांशास्तदपरपरिधिकोणयोरन्तरं नतांशाः । यद्वा—एकस्मिन् परिधिकोणे शृङ्खलादिराधारः कार्यस्तत्र सूर्याभिमुखनेमिकयन्त्रधरणेन सूर्यबिम्बं समसूत्रतया यत्र लग्नं तत्तदधःस्थपरिधिकोणयोरन्तराले उन्नतांशाः । तदाधारयोरन्तराले नतांशाः । उन्नतांशेभ्यः कालसाधनं प्राग्वत् । संप्रदायविदस्तु केन्द्रकोणे सूक्ष्मं छिद्रं कृत्वाऽवलम्बसूत्रं गुरुतराग्रं निवध्य केन्द्रकोणैक- तरपार्श्वव्यासार्धनेमिप्रदेशे चतुरस्रं कीलं सच्छिद्रं रोपयेत् । तदधः परिधिकोणे तत्पार्श्व एवान्यं सच्छिद्रं कीलं निवेशयेत् । अयं कोणः क्षितिजः । एतदन्यः परिधिकोण आकाश- संज्ञः । अत्र सूर्यतेजः कीलकद्वयच्छिद्रमार्गेण यथा निःसरति तथा सूर्याभिमुखकेन्द्रकं यन्त्रं धार्यम् । तदालम्बसूत्रं परिधौ यत्र लगति तत्प्रदेशाकाशप्रदेशयोरन्तरे उन्नतांशाः । तत्क्षितिज- प्रदेशयोरन्तरे नतांशा इत्याहुः । अत्रोपपत्तिः स्पष्टा । चक्रांशत्वात् । यन्त्रचिन्तामणौ केन्द्रकोणे कीलकं निवेश्य तत्र पट्टीं निवेश्य च कलिद्वयासक्तयन्त्रभागे व्यासार्धरेखारूपे त्रिंशत्समभागानङ्क्य व्यासार्ध-