सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 535, कुल 723 में से
संदर्भ में पढ़ेंयन्त्राध्यायः ४३३ केदारदत्तः—काल ज्ञान के लिये भास्कराचार्य का स्वयं निर्मित फलक यन्त्र— क्षितिजाहोरात्र वृत्त सम्पात से खमध्य तक दृङ्मण्डल में उन्नतांश और सूर्योदय से ग्रह बिम्ब केन्द्र तक का समय (काल) का मान नतांश, होता है। अतः सद्गोल की युक्ति से ग्रहगणित सार का बोधन कराने वाले फलक यन्त्र का आचार्य से वर्णन हो रहा है ॥१६॥ इदानीमभीष्टदेवतानमस्कारपूर्वकमाह— नित्यं जाड्यतमोहरं सुमनसामुल्लासनं सप्रभं चाक्लेशं समयावबोधनविधौ प्रोद्बोधितज्योतिषम् ॥ सेव्यं मण्डलमध्यगं सुकृतिभिर्यन्त्रं स्फुटं वच्म्यहं । नत्वैतद्गुणमेव देवममलं श्रीभास्करं भास्करः ॥१७॥ वा० भा०—वच्मि कथयामि। किम्। यन्त्रम्। किविशिष्टम्। स्फुटमव्यभि- चारि। कः। कर्ताऽहं भास्करः। किं कृत्वा। नत्वा प्रणिपत्य। कम्। भास्करं सूर्यम्। किविशिष्टम्। मण्डलमध्यगं सूक्ष्मरूपावस्थानम्। पुनः किविशिष्टमिति प्रतिविशेषणं संबध्यते। नित्यमविनाशिनम्। तथा जाड्यतमोहरं शैत्यतमोहरम्। तथा सुमनसां कमलादीनामुल्लासनम्। तथा। सप्रभं सदीप्तिकम्। तथा—अ- क्लेशं निरायासम्। क्व। समयावबोधनविधो कालज्ञानविधाने। प्रोद्बोधितज्यो- तिषमुल्लासिततारकम्। यदेतत्ताराणां तेजस्तद्रवितेजःसंजनितमेवेत्यर्थः। तथा सेव्यमुपास्यम्। कैः। सुकृतिभिः पुण्यकृद्भिः। अथैतान्येव विशेषणानि यन्त्रे व्याख्यायन्ते। किविशिष्टं यन्त्रम्। जाड्य- तमोहरम्। जाड्यं मौख्यं तदेव तमो हरतीति जाड्यतमोहरम्। कदा। नित्यं प्रत्यहम्। तथा सुमनसां विदुषामुल्लासनम्। तथा सप्रभं छायासहितम्। तथा- अक्लेशं समयावबोधनविधौ। अत्र सुखेन कालज्ञानं भवतीत्यर्थः। तथा प्रोद्बो- धितज्योतिषमुज्ज्वलीकृतज्योतिःशास्त्रम्। तथा सुकृतिभिः सुगणकैः सेव्यम्। तथा मण्डलमध्यगम्। मण्डलं मध्यगं यस्येति मण्डलमध्यगमन्तर्लिखितवृत्त- मित्यर्थः। तथाऽमलमिति ॥१७॥ मरीचिः—ननु सूक्ष्मकालसाधकगोलनाडीवलययन्त्रयोः सत्त्वात्फलकयन्त्रकथनमाव- श्यकं नेत्यतस्तदतिशयत्वेन कल्पितफलकयन्त्रस्य निरूपणं नवीनत्वेन मङ्गलाचरणपूर्वकं सगो- लयुक्तैर्गणितस्य सारमिति प्रागुक्तं स्फुटयन्शार्दूलविक्रीडितेन शिष्यावधानार्थं पुनः प्रति- जानीते—नित्यं जाड्यतमोहरमिति। अहमेतद्ग्रन्थकर्ता भास्करः। तन्नामकाचार्यः। एवका- रोऽन्ययोगव्यवच्छेदार्थकस्तेन पूर्वैरनुक्तमिदमित्यर्थः। श्रीभास्करं करसंघैः शोभायमान सूर्यम्। नत्वा। नमस्कृत्य। कर्तव्यापेक्षया पूर्वकालत्वान्नमस्कारस्य क्त्वानिर्देशः। यन्त्रं २८