भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 608, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 608

५०६ गोलाध्याये निविशते यदि शूकशिखा पदे सृजति सा कियतीमपि न व्यथाम् । मृदुतनोर्वितनोतु कथं न तामवनिभृत्तु निविश्य हृदि स्थितः ॥ इति श्रीहर्षोक्तेश्च । तत्कथमस्या आसन्नमरणाया निकटे लौकिकमार्गेण नाऽऽगतः पति- रित्यत आह—अदयमिति । दयारहितम् । निर्दयस्य कठिनत्वेन प्रवेशे बहुदुःखसंभवादल्प- दुःखावगमार्थमदयमिति मृदूक्तिः । तथा च दयारहितस्य परदुःखे इष्टापत्तिरिति भावः । नन्वेतादृशं विरोधिनं प्रति किमर्थं ब्रूते फलसिद्धयभावादत आह—प्रियमिति । मम मनसि विरहानलाक्रान्तेऽद्यमद्यापि मद्वेदनाभिज्ञतया मर्तुकामः स्थित इति प्रियतमत्वेनाभि- मतमित्यर्थः । तथा च प्रियं प्रति प्रियं वचनमुक्तं सफलमेवेति भावः । ननु स्वविरहवेदनयेयं कठिनमेव वदिष्यतीति प्रियं वचनं कथमत आह—सपेशल- मिति । हृदि स्थितं प्रियमुन्मत्ततया त्वद्भ्रमाभ्यासेन वा । वस्तुतो विदेशादागतं जानतीति पुनः परावृत्य गच्छतीत्याशङ्कया कठिनं न वदति, किंतु सपेशलम् । मधुररससहितं अमृता- दप्यधिकतरम् । तेनैव तद्वचनश्रवणस्वान्तःकरणतयाऽत्र स्थिरो भवतीति भावः । नन्वेतादृशमप्यल्पार्थं वदिष्यत्यन्तःप्रहर्षादिति मनोहरं कथमत आह—अलमिति । अत्यर्थं सव्यङ्ग्यमित्यर्थः । तथा च मनोहरत्वे न क्षतिरिति भावः । ननु तथाऽपि प्राचीनदुःखसंमरणादिदं मनोहरमपि कपटवचनं भविष्यत्यन्तःप्रद्वेष- संभवादित्यत आह—परिहासमिश्रमिति । अनङ्गलीलायाम्— चरणकमलमेकेनाऽङ्घ्रिणाऽऽक्रम्य भर्तुपरपदसरोसेनाऽऽश्रयन्ती तदूरूं(रू) । तरुमिव भुजवल्ल्याऽऽपीड्य चुम्बेन्नताङ्गी कथितमिह मुनीन्द्रैस्तद्वि वृक्षाधिरूढम् । जघनपरिसरस्थं श्रोणिदेशं स्वभर्तुंनिजभुजलतिकाभ्यां गाढमालिङ्ग्य रागात् । लुलितवसनकेशा चुम्बनं यत्र कुर्यात्स्फुटमिह परिरम्भं जाघनं तं वदन्ति ॥ स्थितं पतिं मीलितनेत्रयुग्मं पश्चात्प्रविध्येहनिता कुचाभ्याम् । गृह्णात्यसौ तामपि बिद्धकाख्यमालिङ्गनं तन्मुनिभिः प्रदिष्टम् ॥ अङ्केष्व(स्व)तल्पे पतिसंमुखस्था कान्ता समालिङ्गति यत्र गाढम् । मिथः प्रवेशं कुरुतो निजाङ्गैः स्यात्क्षीरनीरं परिरम्भणं तत् ॥ वल्लीव वृक्षं सरलाङ्गयष्टि पतिं समालिङ्गति यत्र कान्ता । चुम्बेच्च रागात्कृतमन्दसीत्का प्रोक्तं बुधैर्वल्लिरिवेष्टितं तत् ॥ इत्यादि परिरम्भणे । नारीमुखान्ते वदनं स्वकीयं समानयेद्यत्र बलेन कान्तः । सा नैव चुम्बेदतिकोपयुक्ता स्याच्चुम्बनं तन्मिलिताभिधानम् ॥ दयितस्य निवेश्य वक्त्रके निजवक्त्रं परिचुम्बिताधरम् । न पिवेदबला तदाननं स्फुरिताख्यं किल चुम्बनं तदा ॥ करेण कान्तस्य निमील्य नेत्रे जिह्वां मुखान्तर्विनिधाय वक्त्रम् । चुम्बेद्विलोला परिमीलिताक्षीं तद्घाटिताख्यं कवयो वदन्ति ॥